पूर्वम्: ६।२।४६
अनन्तरम्: ६।२।४८
 
सूत्रम्
अहीने द्वितीया॥ ६।२।४७
काशिका-वृत्तिः
अहीने द्वितीया ६।२।४७

अहीनवाचिनि समासे क्तान्ते उत्तरपदे द्वितीयान्तं पूर्वपदं प्रकृतिस्वरं भवति। कष्टश्रितः। त्रिशकलपतितः। ग्रामगतः। कष्टशब्दो ऽन्तोदात्तः। त्रीणि शकलानि अस्य त्रिशकलः, बहुव्रीहिस्वरेण आद्युदात्तः। ग्रामशब्दो नित्स्वरेण आद्युदात्तः। अहीने इति किम्? कान्तारातीतः। योजनातीतः। द्वितीया ऽनुपसर्गे इति वक्तव्यम्। इह मा भूत्, सुखप्राप्तः। दुःखप्राप्तः। सुखापन्नः। दुःखापन्नः। अन्तः थाथेत्यस्य अपवादो ऽयम्।
न्यासः
अहीने द्वितीया। , ६।२।४७

हीनम्()=त्यक्तम्(), न हीनमहीनम्()। "कष्टशब्दोऽन्तोदात्तः" इति। क्तप्रत्ययान्तत्वात्? प्रत्ययस्वरेण। "कृच्छ्रगहनयोः कष" ७।२।२२ इतीट्()प्रतिषेधः। "बहुविरीहिस्वरेणाद्युदात्तः" इति। त्रिशब्दो हि प्रातिपदिकस्वरेणान्तोदात्तः। तत्र "बहुव्रीहौ प्रकृत्या" ६।२।१ इति प्रकृतिस्वरे कृते बहुव्रीहिस्वरेण त्रिशकलशब्द आद्युदात्तः। ग्रामशब्दोऽपि आद्युदात्()त एव। तथा ह्रसौ "अर्तिस्तुसुहुसृधुक्षि" (द।उ।७।२६) इत्यतो मन्परतययेऽनुवर्तमाने "अवतेष्टिलोपश्च" (द।उ।७।२७) "ग्रसतेरा च" (द।उ।७।२८) इति मन्प्रत्ययान्तो व्युत्पाद्यते। "कान्तारातीतः" इति। कान्तारमतीतवान्(), त्यक्तवानित्यर्थः। कान्तारातीतशब्दोऽत्रि हीनशब्दवची। "द्वितीयानुपसर्ग इति वक्तव्यम्()" इति। द्वितीयान्तमनुपसर्गे क्तन्ते प्रकृतिस्वरं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं त्विहापि तस्यैवान्यतरस्यांग्रहणस्यानुवृतिं()त व्यवस्थितविभाषात्वं चाश्रित्य कर्तव्यम्()॥