पूर्वम्: ६।२।४९
अनन्तरम्: ६।२।५१
 
सूत्रम्
तादौ च निति कृत्यतौ॥ ६।२।५०
काशिका-वृत्तिः
ताऽदौ च निति कृत्यतौ ६।२।५०

तकारादौ च तुशब्दवर्जिते निति कृति परतो गतिरनन्तरः प्रकृतिस्वरो भवति। प्रकर्ता। प्रकर्तुम्। प्रकृतिः। प्रकर्ता इति तृन्नन्तः। कृत्स्वरबाधनार्थं वचनम्। तादौ इति किम्? प्रजल्पाकः। निति इति किम्? प्रकर्ता। तृजन्तः। कृद्ग्रहणम् उपदेशे ताद्यर्थम्। इह अपि यथा स्यात्, प्रलपिता। प्रलपितुम्। अतौ इति किम्? आगन्तुः।
न्यासः
तादौ च निति कृत्यतौ। , ६।२।५०

"प्रकर्तुम्()" इति। तुमुन्()। "प्रकर्तेति तृन्नन्तः" इति। तृजन्ताशङ्कां निराकरोति। "कृत्स्वरबाधनार्थम्()" इत्यादि। अव्ययस्वरापवादः "गतिकारकोपपदात्? कृत्()" ६।२।१३८ इति कृत्स्वरः प्राप्नोति, अतस्तद्बाधनार्थं वचनम्()। "प्रजल्पाकः" इति। "जल्पभिक्ष" ३।२।१५५ इत्यादिना षाकन्()। "तृजन्तः" इति। तृन्नन्ताशङ्कां निराकरोति। अथ निद्ग्रहणं किमर्थम्()? प्रकृष्टमृष्टमृत्तिका प्रभृत्तिका इत्यतर मा भूदिति चेत्()? नैतदस्ति; तथा हि--यत्क्रयायुक्ताः प्रादयः तं प्रति गत्युपसर्गसंज्ञकाः भवन्ति, (जै।प।वृ।९९) मृत्तिकाशब्दश्चायं नामधेयत्वात्? क्रियावची न भवति, तेन तं प्रत्युपसर्गसंज्ञा नास्त्येव? इत्यत आह--"कृद्ग्रहणम्()" इत्यादि। "कृति" इत्यनेन संज्ञासम्बन्धकालो लक्ष्यते, तेन कृत्संज्ञावेलायां यस्तादिरित्येषोऽर्थः सम्पद्यत इति कृद्ग्रहणमुपदेशे ताद्यर्थं भवति; कृत्संज्ञाप्रतिपत्तिकालस्योपदेशकालत्वात्()। तस्मात्? पुनरुपदेशे यस्तादिस्तदर्थं यत्नः क्रियत इत्याह--"इह" इत्यादि। यदि तदुपदेशग्रहणं ताद्यर्थ न क्रियेत, तदा प्रलपितेत्यत्र न स्यात्(); इटा तादिताया विहतत्वात्()। य()स्मश्च सतद्युपदेश एव तादिर्भतीति यद्यप्युत्तरकालं तादिता विहन्यते, तथापि भवत्येव। "आगन्तुः" इति। "सितनिगमिमसि" (द।उ।१।१२२) इत्यादना तन्? प्रत्ययः॥