पूर्वम्: ६।२।८६
अनन्तरम्: ६।२।८८
 
सूत्रम्
प्रस्थेऽवृद्धमकर्क्यादीनाम्॥ ६।२।८७
काशिका-वृत्तिः
प्रस्थे ऽवृद्धम् अकर्क्यादीनाम् ६।२।८७

प्रस्थशब्दे उत्तरपदे कर्क्यादिवर्जितम् अवृद्धं पूर्वपदम् आद्युदात्तं भवति। इन्द्रप्रस्थः। कुण्डप्रस्थः। ह्रदप्रस्थः। सुवर्णप्रस्थः। अवृद्धम् इति किम्? दाक्षिप्रस्थः। माहकिप्रस्थः। अकर्क्यादीनाम् इति किम्? कर्कीप्रस्थः। मघीप्रस्थः। कर्की। मघी। मकरी। कर्कन्धू। शमी। करीर। कटुक। कुरल। बदर। कर्क्यादिः।
न्यासः
प्रस्थेऽवृद्धमकर्क्यादीनाम्?। , ६।२।८७

प्रस्थशब्दो यदि व्युत्पाद्यते "घञर्थे कविधानं स्थास्नपाव्यधिहनियुध्यर्थम्()" (वा।३०६) इति, तदा थाथादिस्वरे ६।२।१४३ प्राप्ते। अथ न व्युत्पाद्यते, तदा समासान्तोदात्तत्वे। "इन्द्रप्रस्थः" इत्यादयः षष्ठीसमासाः॥