पूर्वम्: ६।२।९२
अनन्तरम्: ६।२।९४
 
सूत्रम्
सर्वं गुणकार्त्स्न्ये॥ ६।२।९३
काशिका-वृत्तिः
व्क्ष्यति सर्वं गुणकार्त्स्न्ये ६।२।९३

सर्वश्वेतः। सर्वकृष्णः। प्राकुत्तरपदादिः ६।२।११० इत्येतस्मादयम् अधिकारो वेदितव्यः। सर्वं गुणकार्त्स्न्ये ६।२।९३। सर्वशब्दः पूर्वपदम् गुणकार्त्स्न्ये वर्तमानम् अन्तोदात्तं भवति। सर्वश्वेतः। सर्वकृष्णः। सर्वमहान्। सर्वम् इति किम्। परमश्वेतः। आश्रयव्याप्त्या परमत्वं श्वेतत्वस्य इति गुणकार्त्स्न्ये वर्तते। गुणग्रहणं किम्? सर्वसौवर्णः। सर्वराजतः। कार्त्स्न्ये इति किम्? सर्वेषां श्वेततत्रः सर्वश्वेतः। गुणात्तरेण समासस्तरलोपश्च वक्तव्यः इत्येवम् अत्र समासस्तरलोपश्च
न्यासः
संर्व गुणकार्त्स्न्ये। , ६।२।९३

"गुणकार्त्स्न्ये" इति। गुणकार्त्स्न्य गुणस्य सर्वत्राभावः। "सर्व()ओतः" इति। "पूर्वकालैक" २।१।४८ इत्यादिना समानाधिकरणसमासः। अत्र समुदायगुणस्य सर्वत्र भावः। न तु तदवयवे तत्र सर्वशब्दो वर्तत इति गुणकार्त्स्न्यस्य वृत्तिर्भवति। "परम()ओतः" इति। कथं पुनरत्र गुणकार्त्स्न्ये परमशब्दो वर्तते, यावतासौ प्रकर्षवाची, अन्यश्च प्रकर्षः, अन्यच्च गुणकार्त्स्न्यम्()? इत्यत आह--"आश्रयव्याप्त्या" इत्यादि। इतिकरणो हेतौ। यस्मादाश्रयव्याप्त्या परमत्वमुत्कर्षे भवति, नान्यथा। एवं हि तस्योत्कर्ष उपपद्यते यदि सर्वमाश्रयं व्याप्नोति। तस्माद्गुणकार्त्स्न्यं इह परमशब्दो वर्तते। "सर्वसौवर्णः, सर्वराजतः" इति। सुवर्णस्य विकारः सौवर्णः, रजतस्य विकारो राजतः--नात्र गुणकार्त्स्न्यम्(), किं तर्हि? जातियुक्तस्य विकारवषयं कार्त्स्न्यम्()। सर्व हि विकारद्रव्यं प्रकृतिभावेन व्याप्नोतीति द्रव्यकार्त्स्न्यमिह, तत्र च सर्वशब्दो वर्तते। "सर्वेषां ()ओततरः सर्व()ओतः" इति। अत्र गुणकार्त्स्न्ये। कथं पुनरत्र समासः, यावता "पूरणगणसुहित" (२।२।११) इत्यादिना गुणवचनेन षष्ठीसमासः प्रतिषिद्धः? अथापि कथञ्चित्? समासः स्यात्(), एवमपि ()ओततरशब्देन समासे कृते सर्व()ओततरमिति वक्तव्यम्()? इत्यत आह--"गुणात्? तरेण समासः" इत्यादि। औपसंख्यानिकाविह समासतरलोपाविति दर्शयति। समासस्वरापवादो योगः। एवमुत्तरेऽपि योगाः। "न हास्तिनफलकमार्देयाः" (६।२।१०१) इत्यतः प्राक्? समासस्वरापवादो वेदितव्यः॥