पूर्वम्: ६।३।११३
अनन्तरम्: ६।३।११५
 
सूत्रम्
कर्णे लक्षणस्याविष्टाष्टपञ्चमणिभिन्न- छिन्नछिद्रस्रुवस्वस्तिकस्य॥ ६।३।११४
काशिका-वृत्तिः
कर्णे लक्षणस्य अविष्टाष्टपञ्चमणिभिन्नच्छिन्नच्छिद्रस्रुवस्वस्तिकस्य ६।३।११५

कर्णशब्दे उत्तरपदे लक्षणवाचिनो दीर्घो भवति विष्ट अष्टन् पञ्चन् मणि भिन्न छिन्न छिद्र स्रुव स्वस्तिक इत्येतान् वर्जयित्वा। दात्राकर्णः। द्विगुणाकर्णः। त्रिगुणाकर्णः। द्व्यङ्गुलाकर्णः। अङ्गुलाकर्णः। यत् पशूनां स्वामिविशेषसम्बन्धज्ञापनार्थं दात्राकारादि क्रियते तदिह लक्षणं गृह्यते। लक्षणस्य इति किम्? शोभनकर्णः। अविष्टादीनाम् इति किम्? विष्टकर्णः। अष्टकर्णः। पञ्चकर्णः। मणिकर्णः। भिन्नकर्णः। छिन्नकर्णः। छिद्रकर्णः। स्रुवकर्णः। स्वस्तिककर्णः।
न्यासः
कर्णे लक्षणस्याविष्टाष्टपञ्चमणिभिन्नच्छिन्नच्छिद्ररुआवस्वस्तिकस्य। , ६।३।११४

लक्ष्यतेऽनेन स्वामिविशेषस्य सम्बन्ध इति लक्षणम्()=चिह्नम्()। "दात्राकर्णः" इति। दात्रमिव दात्रम्(), सादृश्यात्तदाकारं चिह्नमुच्यते। दात्रं कर्णे यस्य स दात्राकर्णः। एवमुत्तरत्रापि बहुव्रीहिरेव वेदितव्यः। द्वौ गुणौ यस्य स द्विगुणः। तदाकरमपि चिह्नं द्विगुणम्()। गुणशब्दोऽयं बन्धनवचनः। द्वयोरङ्गुल्योः समाहारो द्व्यङ्गुलम्(), "तत्पुरुषस्याङ्गुलेः" ५।४।८६ इत्यादिना च समासान्तः, द्व्यङ्गुलाकारमपि चिह्नं द्व्यङ्गुलम्()। "तदिह लक्षणं गृह्रते" इति। कुत एतत्()? लक्षणग्रहणाद्यदिह सामान्येन येन केनचिल्लक्ष्यते तललक्षणं गृह्रेत चिह्नस्येत्येवं ब्राऊयात्(), लघु ह्रेवं सूत्रं भवति। तस्माच्चिह्नग्रहणे कत्र्तवये यल्लक्षणग्रहणं कृतं तेन लक्षणविशेषोऽत्र ग्राह्रः, न तु लक्षणमात्रमित्यस्यार्थस्य प्रतिपादनं कृतमिति लक्ष्यते। तथा चोक्तम्()--इङ्गितेनोन्मिषितेन महता सूत्रप्रबन्धेन वेहा चार्याणामभिप्राया लक्षन्त इति। ननु च लक्षणग्रहणेन लक्षणविशेषोऽत्राभिमतः, न तु लक्षणमात्रमित्येतावन्मात्रं गम्यते, स तु विशेषो न वृत्तिकारेणोपदर्शितः कुतोऽवसेयः? आचार्याणं स्वीकरणात्()। "शोभनकर्णः" इति। यद्यप्यनेनापि लक्ष्यते, न त्व#एवंविधस्य लक्षणस्येह ग्रहणम्()। नापि शोभनत्वं लोके लक्षणत्वेन प्रतीयत इति भवत्येतत्प्रत्युदाहरणम्()॥
बाल-मनोरमा
कर्णै लक्षणस्याऽ‌ऽविष्टाऽष्टपञ्चमणिभिन्नच्छिन्नच्छिद्रस्नुवस्वस्तिकस्य १०२१, ६।३।११४

कर्णै लक्षणस्य। दीर्घविधिः, "ढ्रलोपे" इत्यतस्तदनुवृत्तेः। यत्पशूनां स्वामिविशेषसंबन्धज्ञानार्थं दात्रशूलचक्राद्याकारचिन्हं क्रियते तल्लक्षणशब्देन विवक्षितम्। तेन "लम्बकर्ण" इत्यादौ नातिप्रसङ्गः। द्विगुणाकर्ण इति। द्विगुणरेखौ कर्णौ यस्येति विग्रहः। "अष्टकर्ण" इत्यादेरष्टसङ्ख्यालिपिचिह्नकर्ण इति वा।