पूर्वम्: ६।३।११४
अनन्तरम्: ६।३।११६
 
सूत्रम्
नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ॥ ६।३।११५
काशिका-वृत्तिः
नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ ६।३।११६

नहि वृति वृषि व्यधि रुचि सहि तनि इत्येतेषु क्विप्रत्ययान्तेषु उत्तरपदेषु पूर्वपदस्य दीर्घो भवति संहितायां विषये। नहि उपानत्। परीणत्। वृति नीवृत्। उपावृत्। वृषि प्रावृट्। उपावृट्। व्याधि मर्मावित्। दृदयावित्। श्ववित्। रुचि नीरुक्। अभिरुक्। सहि ऋतीषट्। तनि तरीतत्। गमः क्वौ ६।४।४० इति गमदीनम् इष्यते। ततः तनोतेरप्यनुनासिकलोपः। क्वौ इति किम्? परिणहनम्।
लघु-सिद्धान्त-कौमुदी
नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ ३६२, ६।३।११५

क्विबन्तेषु पूर्वपदस्य दीर्घः। उपानत्, उपानद्। उपानहौ। उपानत्सु॥ क्विन्नन्तत्वात् कुत्वेन घः। उष्णिक्, उष्णिग्। उष्णिहौ। उष्णिग्भ्याम्॥ द्यौः। दिवौ। दिवः। द्युभ्याम्॥ गीः। गिरौ। गिरः॥ एवं पूः॥ चतस्रः। चतसृणाम्॥ का। के। काः। सर्वावत्॥
न्यासः
नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ। , ६।३।११५

"णह बन्धने" (धा।पा।११६६)। उपनह्रत इति "उपानत्()" सम्पदादित्वात्? क्विप्? "नहो धः" ८।२।३४ इति धत्वम्(), ततो जश्त्वम्(), चत्र्वञ्च। परिणह्रतीति "परिणत्()"। "#उपसर्गादसमासे" ८।४।१४ इत्यादिना णत्वम्()। निवत्र्तत इति "नीवृत्()"। "अन्येभ्योऽपि दृश्यते" ३।२।१७८ इति क्विप्()। एवमुत्तरत्रापि क्विबेव वेदितव्यः। "वृषु सेचने" (धा।पा।७०६) प्रवर्षतीति "प्रावृट्()"। षकारस्य जश्त्वम्()--डकारः, तस्य चर्त्वेटकारः। "व्यध ताडने" (धा।पा।११८१), मर्माणि विध्यतीति "मर्मावित्()" ग्रह्रादिसूत्रेण ६।१।१६ सम्प्रसारणम्()। "रुच दीप्तौ" ["रुच दीप्तावभिप्रीतौ च"--धा।पा।] (धा।पा।७४५), निरोचणं "नीरुक्()"। "चोः कुः" ८।२।३० इति कुत्वम्()। ऋतिं सहत इति "ऋतीषट्()"। "सहेः पृतनत्र्ताभ्याञ्ज" ८।३।१०९ इत्यत्र "सहेः" इति योगविभागादनुक्तसमुच्चयार्थत्वाद्वा चकारस्य षत्वम्()। परितनोतीति "परीतत्()"। अनुनासिकलोपे कृते तुक्()। केन पुनरत्रानुनासिकलोपः? इत्याह--"गमः क्वौ" इत्यादि। गतिकारकयोरेवेष्यत इति। तदर्थम्? "विभाषा पुरुषे" ६।३।१०५ इत्यतो विभाषाग्रहणनुवत्र्तते, सा च व्यवस्थितविभाषा विज्ञेया॥
बाल-मनोरमा
नहिवृतिवृषिब्यधिरुचिसहितनिषु क्वौ १०२२, ६।३।११५

नहिवृति। उपानदिति। "णह बन्धने" "णो नः" सम्पदादित्वात्कर्मणि क्विप्। उपनह्रते इत्युपानत्। पूर्वपदस्य दीर्घः। "नहो धः"। निवर्तते इति नीवृत्। "वृतु वर्तने" कर्तरि क्विप्, दीर्घः। प्रवर्षतीति प्रावृट्। "वृषु सेचने"क्विप्। दीर्घः। "नहो धः"। निवर्तते इति नीवृत्। "वृतु वर्तने" कर्तरि क्विप्, दीर्घः। प्रवर्षतीति प्रावृट्। "वृषु सेचने" क्विप्। दीर्घः। मर्माणि विध्यतदीति मर्मावित्। क्विप्। "ग्रहिज्ये"ति संप्रसारणम्। उपपदसमासः, सुब्लुक्, नलोपः, दीर्घः। निरोचते इचि नीरुक्, "रुच दीप्तौ"क्विप्, दीर्घः। ऋति सहते इति ऋतीषट्। "षह मर्षणे"क्विप्। दीर्घः, "हो ढः", "सात्पदाद्योः" इति षत्वनिषेधे प्राप्ते "पूर्वपदा"दिति षत्वमिति हरदत्तः। सुषामादित्वादित्यपरे। परितनोतीति परीतत्। "तनु विस्तारे" क्विप्, "गमः क्वौ" इत्यत्र गमादीनामित्युपसङ्ख्यानादनुनासिकलोपः। तुक्, दीर्घः। अथ पटुरुक्, तिग्मरुगित्यादौ दीर्घमाशङ्क्याह विभाषेति। पटुरुगिति। पटु रोचत इति विग्रहः। उभयत्र कर्तरि क्विप्। पूर्वपदयोर्गतिकारकान्यतरत्वाऽभावान्न दीर्घः। व्यवस्थिविभाषाश्रयणे व्याख्यानमेव शरणम्।

तत्त्व-बोधिनी
नहिवृतिवृषिब्यधिरुचिसाहितनिषु क्वौ ८६२, ६।३।११५

नहिवृति। "णह बन्धने", "वृतु वर्तने","वृषु सेचने", "व्यध ताडने", "रुच दीप्तौ", "षह मर्षणे", "तनुविस्तारे"। क्विबन्तोष्विति। "उत्तरपदेषु"इति शेषः। तेन "दिवसेषु रुक्" इत्यादौ नातिप्रसङ्गः। उपानदिति। संपदादित्वात्कर्मणि क्विप्। निवर्तते इति निवृत्। प्रवर्षति इति प्रावृट्। मर्माणि विध्यति इति मर्मावित्। व्यधेः "ग्रहिज्ये"ति संप्रसारणम्। निरोचते इति नीरुक्। ऋतिं सहते ऋतीषट्। "पूर्वपदा"दिति षत्वमिति हरदत्तः। "सहेः पृतनतीभ्यां चे"त्यत्र "सहे"रिति योगविभागाच्चकारस्यानुक्तसमुच्चयाद्वेत्यन्ये। सुषामादेराकृतिगणत्वादित्यपरे। परितनोति इति परीतत्। "गमः क्वौ"इत्यत्र "गमादीनामिति वाच्य"मित्युक्तेर्नलोपः।