पूर्वम्: ६।३।१२१
अनन्तरम्: ६।३।१२३
 
सूत्रम्
इकः काशे॥ ६।३।१२२
काशिका-वृत्तिः
इकः काशे ६।३।१२३

इगन्तस्य उपसर्गस्य काशशब्दे उत्तरपदे दीर्घो भवति। नीकाशः। वीकाशः। अनूकाशः। पचाद्यच्प्रत्ययान्तो ऽयं काशशब्दः, न तु घञन्तः। इकः इति किम्? प्रकाशः।
न्यासः
इकः काशे। , ६।३।१२२

"नीकाशः" इति। "कासृ दीप्तौ" (धा।पा।६४७)। "पचाद्यजन्तोऽयं काशशब्दः न तु घञन्तः" इति। तत्र पूर्वेणैव सिद्धमित्यभिप्रायः। "पूर्वेणैव सिद्धे नियमार्थमेतत्()--इक एव काशे नान्यस्य" इति क्वचिद्? ग्रन्थः, एष तु नोपपद्यते; घञि पूर्वेण दीर्घविधानात्(), एतस्य च काशशब्दस्य पचाद्यजन्तत्वात्()। अथ बहुलग्रहणात्? पचाद्यजन्तेऽपि पूर्वेणैव सिद्धमित्युच्यते, तथा च तत एव बहुलग्रहणादिकोऽन्यस्यन भविष्यतीति न करत्तव्यमेवेदं सूत्रम्()। क्रियमाणञ्च पूर्वस्यैव प्रपञ्चार्थ द्रष्टव्यम्()॥
बाल-मनोरमा
इकः काशे १०३०, ६।३।१२२

इकः काशे। नीकाश इति। पचाद्यजन्तत्वात्पूर्वेण न प्राप्तिः।