पूर्वम्: ६।३।१२०
अनन्तरम्: ६।३।१२२
 
सूत्रम्
उपसर्गस्य घञ्यमनुष्ये बहुलम्॥ ६।३।१२१
काशिका-वृत्तिः
उपसर्गस्य घञ्यमनुष्ये बहुलम् ६।३।१२२

उपसर्गस्य घञन्ते उत्तरपदे अमनुष्ये ऽभिधेये बहुलं दीर्घो भवति। वीक्लेदः। वीमार्गः। अपामार्गः। न च भवति। प्रसेवः। प्रसारः। सादकारयोः कृत्रिमे दीर्घो भवति। प्रासादः। प्राकारः। कृत्रिमे इति किम्? प्रसादः। प्रकारः। वेशादिषु विभाषा दीर्घो भवति। प्रतिवेशः, प्रतीवेशः। प्रतिरोधः, प्रतीरोधः। अमनुष्ये इति किम्? निषादो मनुष्यः।
न्यासः
उपसर्गस्य घञ्यमनुष्ये बहुलम्?। , ६।३।१२१

उपसर्गात्? केवलं घञ्प्रत्ययो न सम्भवति, अतो घञन्त उत्तरपदे कार्यं वज्ञायत इत्याह--"घञन्त उत्तरपदे" इत्यादि। "वीक्लेदः" इति। "क्लिद आद्र्रीभावे" (धा।पा।१२४२), ["क्लिदू"--धा।पा।] "अकर्तरि च कारके" ३।३।१९ इत्यादिना घञ्()। "वीमार्गः" इति। "मृजू" शूद्धौ" (धा।पा।१०६६), "मृजेर्वृद्धिः" ७।२।११४, "चजोः कु घिण्यतोः" ७।३।५२ इति कुत्वम्()। "प्रसेवः" इति। "षिवु तन्तुसन्ताने" (धा।पा।११०८)। "कृत्रिमम्()" इति। करणेन निर्वृत्तं कृत्रिमम्()। पुरुषव्यापारादिभिर्निर्वृत्तमित्यर्थः। "निषादः" इति। "षद्लृ विशरणगत्यवसादनेषु" (धा।पा।८५४), निषीदत्यस्मिन्? पापमिति निषादः। "हलश्च" ३।३।१२१ इति घञ्()॥
बाल-मनोरमा
उपसर्गस्य घञ्यमनुष्ये बहुलम् १०२९, ६।३।१२१

उपसर्गस्य। परीपाक इति। पचेर्भावे घञ्, उपधावृद्धिः। "चजोः कु घिण्ण्यतो"रिति कुत्वम्। निषाद इति। पुलिन्दो नाम मनुष्यजातिविशेषः। निषीदत्यस्मिन् पापमिति निषादः। "हलश्चे"त्यधिकरणे घञ्। दौवारिके प्रतीहारशब्दे दीर्घस्त्वप्रामाणिकः। यद्वा प्रतीहारो द्वारम्, तत्स्थत्वान्मनुष्ये गौणः।

तत्त्व-बोधिनी
उसर्गस्य घञ्यमनुष्ये बहुलम् ८६६, ६।३।१२१

घञन्त इति। निषाद इति। पुलिन्दो मनुष्यजातिः। "निषीदत्यस्मिन्पाप"मिति निषादः। "हलश्चे"त्याधिकरणे घञ्। कथं तर्हि दौवारिके प्रतीहारशब्दप्रयोग इति चेत्()। अत्राहुः--प्रतीहारो द्वारम्। तास्थ्यात्ताच्छब्द्यमिति।