पूर्वम्: ६।३।१३३
अनन्तरम्: ६।३।१३५
 
सूत्रम्
द्व्यचोऽतस्तिङः॥ ६।३।१३४
काशिका-वृत्तिः
द्व्यचो ऽतस्तिङः ६।३।१३५

ऋचि इति वर्तते। द्व्यचस्तिङन्तस्य अतः ऋग्विषये दीर्घो भवति। विद्मा हि त्वा गोपतिं शूर गोनाम्। विद्मा शरस्य पितरम्। द्व्यचः इति किम्? अश्वा भवत वाजिनः। अतः इति किम्? आ देवान् वक्षि यक्षि च।
न्यासः
द्व्यचोऽतस्तिङः। , ६।३।१३४

"अ()आआ भरत वाजिनः" इति। "भृ" इत्येतस्य लोण्मध्यमपुरुषस्य बहुवचने रूपमेतत्()। "दक्षि पक्षि" इति। वचेर्यजेश्च परस्य लेटः सिप्(), "कत्र्तरि शप्()" ३।१।६८। वचेरदादित्वाच्छपो लुक्()। यजेरपि "बहुलं च्छन्दसि" २।४।७६ इति॥