पूर्वम्: ६।३।१३२
अनन्तरम्: ६।३।१३४
 
सूत्रम्
इकः सुञि॥ ६।३।१३३
काशिका-वृत्तिः
इकः सुञि ६।३।१३४

सुञ् निपातो गृह्यते। इगन्तरय सुञि परतो मन्त्रविषये दीर्घो भवति। अभी षु णः सखीनाम्। ऊर्ध्व ऊ षु ण ऊतये। सुञः ८।३।१०९ इति षत्वम्, नश्च धातुस्थोरुषुभ्यः ८।४।२६ इति णत्वम्।
न्यासः
इकः सुञि। , ६।३।१३३

सुञिति निपातस्य ग्रहणम्()। "अभि षु णः" इति। अभिशब्दस्य दीर्घत्वम्()। "सुञः ८।३।१०७ इति षत्वम्()। "नः" इत्ययमस्मदादेशः, तस्य "नश्च धातुस्थोरुषुभ्यः" ८।४।२६ इति णत्वम्()। "ऊष्र्व ऊ षु णः" इति। उकारस्य दीर्घः।