पूर्वम्: ६।३।४
अनन्तरम्: ६।३।६
 
सूत्रम्
आज्ञायिनि च॥ ६।३।५
काशिका-वृत्तिः
आज्ञायिनि च ६।३।५

आज्ञायिन्युत्तारपदे मनसः उत्तरस्य तृतीयायाः अलुग् भवति। मनसा अज्ञातुं शीलमस्य मनसाज्ञायी।
न्यासः
आज्ञायिनि च। , ६।३।५

"मनसाज्ञायी" इति। तच्छिलिको णिनिः, "आतो युक्? चिण्कृतोः" ७।३।३३ इति युगागमः, उपपदसमासः॥
बाल-मनोरमा
आज्ञायिनि च ९४७, ६।३।५

आज्ञायिनि च। मनस इत्येवेति। अनुवर्तत एवेत्यर्थः। मनसस्तृतीयाया अलुक् स्यादाज्ञायिनि परे इत्यर्थः। असंज्ञार्थमिदम्। ज्ञातुमिति। प्रेरयितुमित्यर्थः। मनसाज्ञायीति। "सुप्यजातौ" इति णिनिः। "आतो युक्चिण्कृतो"रिति युक्। अत्र सूत्रभाष्ये "आत्मनश्च पूरणे उपसङ्ख्यान"मिति वार्तिकं पठितम्।