पूर्वम्: ६।३।५
अनन्तरम्: ६।३।७
 
सूत्रम्
आत्मनश्च (पूरणे)॥ ६।३।६
काशिका-वृत्तिः
आत्मनश् च पूरणे ६।३।६

आत्मनश्च पूरणे ६।३।६। आत्मनः उत्तरस्याः तृतीयायाः पूरणप्रत्ययान्ते उतारपदे ऽलुग् भवति। आत्मनापञ्चमः। आत्मनाषष्ठः। तृतीयाविधाने प्रकृत्यादिभ्य उपसङ्ख्यानम् इति तृतीया। तृतीया इति योगविभागात् समासः। आत्मना वा कृतः पञ्चमः आत्मनापञ्चमः। कथं जनार्दनस्त्वात्मचतुर्थ एव इति? बहुव्रीहिरयम् आत्मा चतुर्थो ऽस्य असौ आत्मचतुर्थः।
न्यासः
आत्मनश्च पूरणे। , ६।३।६

पूरणगरहणिह स्वर्यते, स्वरितेन चाधिकारावगतिर्भवति। तेन पूरणग्रहणधिकृत्य पूरणग्रहणमधिकृत्य पूरणप्रत्यया विहितास्त एव पूरणग्रहणेन गृह्रन्ते, न तु स्वरूपम्()। "उत्तरपदे" ६।३।१ इत्यनुवत्र्तते च, ततः प्रत्ययग्रहणपरिभाषया (भो।प।सू।७) पूरणप्रत्ययान्त उत्तरपदे कार्यं विज्ञायत इत्यालोच्याह--"पूरणप्रत्ययान्त उत्तरपदे" इत्यादि। "पञ्चमः" इति। पञ्चानां पूरणः "तस्य पूरणे डट्()" ५।२।४८ इति डट्(), तस्य "नान्तादसंख्यादेर्मट्()" ५।२।४९। "षष्ठः" इति। षण्णां पूरण इति "षट्कतिकतिपयचतुरां थुक्()" ५।२।५१, ष्टुत्वम्()। "आत्मनापञ्चमः" इत्यादौ केन तृतीया, न ह्रत्र करणादिस्तृतीयार्थोऽस्ति, करणादि हि कारकम्(), क्रियायाश्च कारक्रं भवति, न चेह काचित्? क्रिया विद्यते? इत्याह--"तृतीयाविधाने" इत्यादि। भवत्वेवम्(), तृतीयासमासास्तु कथम्(), न ह्रत्र समासलक्षणमस्ति? इत्यत आह--"तृतीयाविधाने" इत्यादि। भवत्वेवम्(), तृतीयासमासस्तु कथम्(), न ह्रत्र समासलक्षणमस्ति? इत्यत आह--"तृतीयेति च" इत्यादि। अथ वा--"कर्तृकरणयोस्तृतीया" २।३।१८ इत्यनेनैवात्र तृतीया, "कर्तृकरणे कृता बहुलम्()" २।१।३१ इति समास इति दर्शयन्नाह--"आत्मना वा" इत्यादि। अत्र कर्तर करणे वैषा तृतीया--कृतः पञ्चम इति। कृते समासे कृतशब्दो न प्रयज्यते; तदर्थस्य वृत्तावन्तर्भावात्()। "कथम्()" इत्यादि। अत्राप्यात्मना चतुर्थ इति भवितव्यमिति भावः। "बहुव्रीहिरयम्()" इत्यादि परिहारः। तत्पुरुषे ह्रात्मनाचतुर्थ इति स्यात्(), न चायं तत्पुरुषः। किं तर्हि? बहुव्रीहिः। स च प्रथमान्तयोरेव पदयोरिति न भवत्यनिष्टप्रसङ्गः। ननु चान्यपदार्थे बहुव्रीहिरुच्यते, अन्यपदार्थश्च व्यतिरिक्तो भवति। यथा चित्रा--गावो यस्य सः चित्रगुरिति, न चेह कश्चिद्व्यतिरिक्तोऽन्यपदार्थोऽस्ति? नैष दोषः; अव्यतिरक्तोऽप्यन्यपदार्थो भवति वयपदेशिवद्भावेन। यथा--शोभनशरीरः शिलापुत्रक इति॥