पूर्वम्: ६।३।५५
अनन्तरम्: ६।३।५७
 
सूत्रम्
उदकस्योदः संज्ञायाम्॥ ६।३।५६
काशिका-वृत्तिः
उदकस्य उदः संज्ञायाम् ६।३।५७

उदकशब्दस्य संज्ञायां विषये उद इत्ययम् आदेशो भवति उत्तरपदे परतः। उदमेघो नाम यस्य औदमेधिः पुत्रः। उदवाहो नाम यस्य औदवहिः पुत्रः। संज्ञायाम् इति किम्? उदकगिरिः। सञ्जायाम् उत्तरपदस्य्९अ उ)दकशब्दस्य उदादेशो भवति इति वक्तव्यम्। लोहितोदः। नीलोदः। क्षीरोदः।
न्यासः
उदकस्योदः संज्ञायाम्?। , ६।३।५६

"उदमेघो नाम यस्योदमेघिः पुत्रः" इति। पितुरप्रसिद्धत्वादुदमेघस्य तदपत्येन समाख्यातुं यस्योदमेघिः पुत्र इत्युक्तम्()। एतेन यस्यौदमेघिरपत्यं स उदमेघो वेदितव्यमिति दर्शयति। एवम्()--"उदवाहो नाम यस्यौदवाहिः पुत्रः" इत्यत्रापि वेदितव्यम्()। उदमेघ इति षष्ठीसमासः, उदकपूर्णो वा मेघः--शाकपार्थिवादित्वा(वा।८३) न्मध्यमपदलोपी तत्पुरुषः, उदकं बहतति उदवाहः--"कर्मण्यण्()" ३।२।१। "वक्तवयः" इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्()--इहापि स एव चकारोऽनुवत्र्तते अनुक्तस मुच्चयार्थः, न चान्यत्? समुच्चेतव्यमस्तीति। उदभावमेवासावुदकशब्दस्य संज्ञायां समुच्चिनोति। तत्र कस्य समुच्चिनोति? यस्य न प्राप्नोति। कस्य न प्राप्नोति? उत्तरपदभूतस्य। तेन संज्ञायामुत्तरपदस्याप्युदकशब्दयोद इत्ययमादेशो भवति। "लोहितोदः, क्षीरोदः" इति बहुव्रीहि-॥
बाल-मनोरमा
उदकस्योदः संज्ञायाम् ९८०, ६।३।५६

उदकस्योदः। उदकशब्दस्य "उद" इत्यादेशः स्यादुत्तरपदे संज्ञायामित्यर्थः। उदमेघ इति। उदकपूर्णमेघसादृश्यात्कस्यचिदियं संज्ञा।

उत्तरपदस्य चेति। उत्तरपदस्य उदकशब्दस्य उदैत्यादेशः स्यात्संज्ञायामित्यर्थः। क्षीरोद इति। क्षीरम् उदकस्थानीयं यस्येति विग्रहः। "क्षीरोदं सरः" इति त्वसाध्वे, असंज्ञात्वात्।

तत्त्व-बोधिनी
उदकस्योदः संज्ञायाम् ८३६, ६।३।५६

उदमेघ इति। सादृश्यात्पुरुषस्येयं संज्ञा।