पूर्वम्: ६।३।५६
अनन्तरम्: ६।३।५८
 
सूत्रम्
पेषंवासवाहनधिषु च॥ ६।३।५७
काशिका-वृत्तिः
पेषम्वासवाहनधिषु च ६।३।५८

पेषं वास वाहन धि इत्येतेषु च उत्तरपदेसु उदकस्य उद इत्ययम् आदेशो भवति। उदपेषं पिनष्टि। स्नेहने पिषः ३।४।३८ इति णमुल्। वास उदकस्य वासः उदवासः। वाहन उदकस्य वाहनः उदवाहनः। उदकं धीयते ऽस्मिनिति उदधिः।
बाल-मनोरमा
पेषंवासवाहनधिषु च ९८१, ६।३।५७

पेषंवास। "पेष"मिति णमुलन्तमव्ययम्। तस्मन्वासवाहनधिषु च परत उदकशब्दस्य उदः स्यादित्यर्थः। असंज्ञार्थं वचनम्। उदपेषं पिनष्टीति। उदकेन पिनष्टीत्यर्थः। "स्नेहने पिषः" इति णमुल्। कषादिषु यताविध्यनुप्रयोगः। उदवास इति। उदकस्य वास इति विग्रहः। उदवाहन इति। करणे ल्युट्। उदकस्य वाहक इत्यर्थः। उदधिर्घट इति उदकं "धीयतेऽस्मिन्निति विग्रहः। "कर्मण्यधिकरणे चे"ति किप्रत्ययः। असंज्ञात्वास्फोरणाय "घट" इति विशेष्यम्। समुद्रे त्विति। तत्र उदधिशब्दस्य संज्ञात्वेन "उदकस्योदः" इति पूर्वसूत्रेण सिद्धमित्यर्थः।

तत्त्व-बोधिनी
पेषावासवाहनधिषु च ८३७, ६।३।५७

उदपेषमिति। "स्नेहने पिषः"इति णमुल्। उदधिरिति। उदकं धीयतेऽस्मिन्निति विग्रहः। "कर्मण्यधिकरणे चे"ति किप्रत्ययः।