पूर्वम्: ६।३।७३
अनन्तरम्: ६।३।७५
 
सूत्रम्
नभ्राण्नपान्नवेदानासत्यानमुचिनकुलनख- नपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या॥ ६।३।७४
काशिका-वृत्तिः
नभ्राण्नपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या ६।३।७५

नभ्राट् नपात् नवेदाः नासत्याः नमुचि नकुल नख नपुंसक नक्षत्र नक्र नाक इत्येतेषु नञ् प्रकृत्या भवति। न भ्राजते इति नभ्राट्। भ्राजतेः क्विबन्तस्य नञ्समासः। नपाति इति नपात्। पातिः शत्रन्तः। नवेत्ति इति नवेदाः। वित्तिरसुन्प्रत्ययान्तः। नासत्याः सत्सु साधवः सत्याः, न सत्याः असत्याः, न असत्याः नासत्याः। न मुञ्चति इति नमुचिः। मुचेरौणादिकः किप्रत्ययः। न अस्य कुलम् अस्ति नकुलः। नख न अस्य खम् अस्ति इति नखम्। नपुंसक न स्त्री न पुमान् नपुंसकम्। स्त्रीपुंसयोः पुंसकभावो निपात्यते। नक्षत्र न क्षरते क्षीयते इति वा नज्ञात्रम्। क्षियः क्षरतेर्वा क्षत्रम् इति निपात्यते। नक्र न क्रामति इति नक्रः। क्रमेर्डप्रत्ययो निपातनात्। नाक न अस्मिनकमस्ति नाकम्।
न्यासः
नभ्रण्नपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या। , ६।३।७४

"नभ्राट्()" इति। "भ्राजृ दीप्तौ" (धा।पा।१८१) अस्मात्? "भ्राजभ्रास" ३।२।१७७ इत्यादिना क्विप्(), जकारस्य "व्रश्च" ८।२।३६ इत्यादिना षकारः, तस्य जशत्वम्()--डकारः, तस्यापि चत्र्वम्()--टकारः। "नपात्()" इति। नपुंसकत्वादसत्यां सर्वनामस्थानसंज्ञायामुगिल्लक्षणो नुम्? न भवति। "नवेदाः" इति। "अत्वसन्तस्य चाधातोः" ६।४।१४ इति दीर्घः। "सत्सु साधवः सत्याः" इति। अनेन "तत्र साधुः" (४।४।९८) इति सच्छब्दात्? प्राग्घितीयं यतं दर्शयति। "औणादिकः किप्रत्ययः" इति। "इगुपधात्? कित्()" (द।उ।१।४८) इति किप्रत्ययः। "क्षियः" इति। "क्षिष्? हिंसायाम्()" (धा।पा।१५०६), ["क्षीष्()"--धा।पा।] "क्षि निवासगत्योः" (धा।पा।१४०७) इति। "क्षरतेर्वा" इति। "क्षर संञ्चलने" (धा।पा।८५१)। नक्षत्रमिति निपात्यते। किमत्र निपात्यते? यदि क्षियः, तदा त्रप्रत्यय इकारस्यात्त्वम्(); यद क्षरतेस्तदापि त्रप्रत्ययो रेफलोपश्च। "नास्मिन्नकमस्तीति नाकम्()" इति। कमिति सुखमुच्यते। न कम्()=दुःखम्()। नास्मिन्नकमस्ति इति नाकः=स्वर्गः। रूढिशब्दा ह्रते यथाकथञ्चित्? व्युत्पाद्यन्ते॥
बाल-मनोरमा
नभ्राण्नपान्नवेदा नासत्या नमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या ७४९, ६।३।७४

नभ्राण्नपात्। सुगमम्। अनुवर्तमान इति। "समासविधयो वक्ष्यन्ते" इति शेषः।

तत्त्व-बोधिनी
नभ्राण्नपान्नवेदा नासत्या नमुचिनकुलवखनपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या ६६३, ६।३।७४

नभ्राट्। सत्सु साधवः सत्याः। "तत्र साधुः"इति यत्। न सत्या असत्याः। न असत्या नासत्याः। इह बहुवचनमविवक्षितम्। तेन "नासत्याव()इआनौ दस्नौ"इति सिद्धम्। नमुचिरिति। "सर्वधातुब्य इन्"। "इगुपधात्किदि"ति कित्त्वान्न गुणः। क्षरतेः क्षीयतेर्वेति। "क्षर सञ्चलने"भ्वादिः। "क्षि निवासगत्योः"तुदादिः।