पूर्वम्: ६।३।७२
अनन्तरम्: ६।३।७४
 
सूत्रम्
तस्मान्नुडचि॥ ६।३।७३
काशिका-वृत्तिः
तस्मान् नुडचि ६।३।७४

तस्माल् लुप्तनकारान् नञः नुडागमो भवति अजादवुत्तरपदे। अनजः। अनश्वः। तस्मातिति किम्? नञ एव हि स्यात्। पूर्वान्ते हि ङमो ह्रस्वादचि ङ्मुण् नित्यम् ८।३।३२ इति प्राप्नोति।
लघु-सिद्धान्त-कौमुदी
तस्मान्नुडचि ९५१, ६।३।७३

लुप्तनकारान्नञ उत्तरपदस्याजादेर्नुडागमः स्यात्। अनश्वः। नैकधेत्यादौ तु नशब्देन सह सुप्सुपेति समासः॥
न्यासः
तस्मान्नुडचि। , ६।३।७३

"नञ एव हि स्यात्()" इति। अचीति सप्तमीनिर्देशात्(), "तस्मिन्निति निर्दिष्टे पूर्वसय" १।१।६५ इति दतनात्()। नञो नुडागमे सत्यनिष्टं रपं स्यात्()। तस्माद्ग्रहणे तु सति "उभयनिर्देशे पञ्चमीनिर्देशी बलीयान्()" (शाक।प।९७) इत्युत्तरपदस्यैव भवति, अतो न भवत्यनिष्टप्रसङ्गः। ननु च यदि नञो नुट्? स्यात्(), नलोपवचनमनर्थकं स्यात्()? नानर्थकम्(); अब्राआहृणः, अवृषल इत्यनजादौ नकारश्रवणं माभूदित्येवमर्थत्वात्()। यदि नञो मा भूदित्येवमर्थं "तस्मात्()" इत्युच्यते, तर्हि न वाच्यम्(), पूर्वान्तो ह्रयं नुक्? करिष्यते? इत्याह--"पूर्वान्ते हि" इति। पूर्वान्ते नुटि क्रियमाणे ङमन्तस्य पदस्य विधीयमानः "ङमो ह्यस्वादचि ङमुण्? नित्यम्()" (८।३।३२) इति नुट्? प्राप्नोति, ततश्च स एवानिष्टप्रसङ्गः। तस्मान्नुडेव कत्र्तव्यः। अस्मिस्तु क्रियमाणे नञ एव मा भूदित्येवमर्थ तस्माद्ग्रहणम्()॥
बाल-मनोरमा
तस्मान्नुडचि ७४८, ६।३।७३

तस्मान्नुडचि। तच्छब्देन पूर्वसूत्रावगतो लुप्तनकारो नञ् परामृश्यते। उत्तरपद इत्यनुवृत्तमचीत्यनेन विशेष्यते। तदादिविधिः। "उभयनिर्देशे पञ्चमीनिर्देशो बलीयान् परत्वा"दिति परिभाषया सप्तमी षष्ठी प्रकल्पयति। तदाह--लुप्तनकारादिति। अन()आ इति। समासे सति नञो नकारस्य लोपे तत्परिशिष्टाऽकारस्य नुट्। टकार इत्। उकार उच्चारणार्थः। टित्त्वादाद्यवयव इति भावः। नुक्तु न कृतः, ङमुट्प्रसङ्गात्। ननु "उत्तरे कर्मण्यविघ्नमस्तु" इत्यादौ विघ्नानामभाव इत्यर्थे नञ्तत्पुरुषे सति परवल्लिङ्गत्वेऽविघ्न इति स्यात्। नच अर्थाभावेऽव्ययीभावेन तत्सिद्धिरिति वाच्यम्, अव्ययीभावस्य निरमक्षिकमित्यादौ सावकाशतया परत्वात्तत्पुरुषस्यैव प्रसङ्गादित्यत आह--अर्थाऽभावे इति। रक्षेति। पस्पशाह्निकभाष्ये इदं वाक्यम्। रक्षा च ऊहश्च आगमश्चलघु च असन्देहश्चेति द्वन्द्वः। "परवल्लिङ्ग"मिति पुंस्त्वम्। अत्र सन्देहाऽभाव इत्यर्थेऽसन्देहशब्दस्य असन्देहा इति प्रयोगात्तत्पुरुषो विज्ञायते। अव्ययीभावे "रक्षोहागमलघ्वसन्देह"मिति स्यात्। अद्रुतायामसंहितमिति। "परः सन्निकर्षः संहिते"सूत्रे पठितमिदं वार्तिकम्। अद्रुतायां वृत्तौ स#ंहिताऽभाव इत्यर्थः। अत्र अव्ययीभावे सति असंहितमिति प्रयोगादव्ययीभावेऽपि अर्थाऽभावो नञा गम्यो भवतीति विज्ञायते। अन्यथा तत्पुरुषे सति परवल्लिङ्गत्वादसंहितेति स्यात्। ततश्च नञा गम्येऽभावे तत्पुरुषाऽव्ययीभावयोर्विकल्प इति स्थितम्। तेनेति। अनुपलब्धिरित्यत्र,अविवाद इत्यत्र च तत्पुरुषः, अविघ्नमित्यत्र अव्ययीभावश्च सिध्यतीत्यर्थः। शब्देन्दुशेखरे त्वन्यथा प्रपञ्चितम्।

नञो नलोपस्तिङि क्षेपे इति। "न लोपो नञः" इति सूत्रस्थवार्तिकमिदम्। नञो नकारस्य लोपः स्यात्तिङि परे निन्दायामिति वक्तव्यमित्यर्थः। अपचसि त्वं जाल्मेति। कुत्सितं पचसीत्यर्थः। अत्र अ इति भिन्नं पदं तिङन्तेन समासाऽभावात्। वार्तिकमिदं प्रसङ्गादुपन्यस्तम्। नञ्समानार्थकेन "अ" इत्यव्ययेनापि सिद्धमिदमिति वार्तिकं विफलमेव। केचित्तु अस्मादेव वार्तिकादव्ययेषु "अ" इत्यस्य पाठोऽप्रामाणिक इत्याहुः। ननु नैकधेत्यत्रापि नञ्समासे "न लोपो नञः" इति नकारस्य लोपे "तस्मान्नुडची"ति नुटि अनेकधेत्येव स्यादित्यत आह--नैकधेत्यादौ त्विति। एतदर्थमेव "न"ञिति सूत्रे, "न लोपो नञः" इति सूत्रे च ञकारानुबन्दग्रहणमिति भावः।

तत्त्व-बोधिनी
तस्मान्नुडचि ६६२, ६।३।७३

तस्मान्निडाच। "डः सि धुडि"त्यत्रेवाऽचीति सप्तम्याः षष्ठी प्रकल्प्यत इत्याह--अजादेरिति। अचा उत्तरपदविशेषणात् "यस्मिन्विधि"रिति तदादिविधिर्लभ्यत इति भावः। अन()आ इति। नुटः परादित्वेनाऽपदान्तत्वान्ङमो ह्यस्वादिति ङमुण्न भवति। ननु विन्घानामबावोऽविघ्नामित्यत्रापि परत्वात्तत्पुरुषः स्यात्, अव्ययीभावस्य निर्मक्षिकादौ सावकाशत्वात्। अन्यथा "अनुपलब्धिः"अविवाद" इति न सिद्धयेदित्याशङ्क्याह---अर्थाभावेऽव्ययीभावेन सहेत्यादि। अविघ्नमिति। यद्यप्यविद्यमाना विग्नायस्मिन्निति बहुव्रीहिणा "अविघ्नं कर्मे"त्यादिप्रयोगः सिद्द्यति, तथापि "उत्तरे कर्मण्यविघ्नमस्तु"इत्यादिप्रयोगा अव्ययी भावं विना स्वरसतो न सिद्द्यन्तीति भावः।

नञो नलोपस्तिङि क्षेपे। नञो नलोप इति। तिङन्तेन समासाऽभावादप्राप्ते वचनम्। अपचसीति। कुत्सितं पचसीत्यर्थः। नशब्देनेति। नञा समासे त्वनेकधेत्येव स्यादिति भावः।