पूर्वम्: ६।४।१०७
अनन्तरम्: ६।४।१०९
 
सूत्रम्
नित्यं करोतेः॥ ६।४।१०८
काशिका-वृत्तिः
नित्यं करोतेः ६।४।१०८

करोतेः उत्तरस्य उकारप्रत्ययस्य वकारमकारादौ प्रत्यये परतः नित्यं लोपो भवति। कुर्वः। कुर्मः। उकारलोपस्य दीर्घविधौ अस्थानिवद्भावाद् हलि च ८।२।७७ इति दीर्घत्वं प्राप्तम्, न भकुर्छुराम् ८।२।७१ इति प्रतिषिध्यते।
लघु-सिद्धान्त-कौमुदी
नित्यं करोतेः ६८२, ६।४।१०८

करोतेः प्रत्ययोकारस्य नित्यं लोपो म्वोः परयोः। कुर्वः। कुर्मः। कुरुते। चकार, चक्रे। कर्तासि, कर्तासे। करिष्यति, करिष्यते। करोतु। कुरुताम्। अकरोत्। अकुरुत॥
न्यासः
नित्यं करोतेः। , ६।४।१०८

"करोतेरुकारप्रत्ययस्य" इति। ननु चकारेण पूर्वसूत्र उकारोऽनुकृष्टः, "चानुकृष्टञ्चोत्तरत्र नानुवत्र्तते" (व्या।प।७६) तत्? कथमुकारस्य लोपो लभ्यते? नैवम्(); पूर्वसूत्रे ह्रुकारस्य सन्निधानमस्येत्यनेनैव लभ्यत इति तत्र तस्य चकारेण याऽनुकृष्टिः सैतदर्थैव वेदितव्या। "उकारलोपस्य" इत्यादिना कुर्वः कुमं इत्यत्र सोपपत्तिकां दीर्घप्रा()प्त दर्शयति, "न भकुर्छुराम्()" ८।२।७९ इत्यनेन च तत्प्रतिषेधम्()। नित्यग्रहणं विस्पष्टार्थम्()। आरम्भसामथ्र्यादेव हि नित्यो विधिर्भविष्यति॥