पूर्वम्: ८।२।७६
अनन्तरम्: ८।२।७८
 
प्रथमावृत्तिः

सूत्रम्॥ हलि च॥ ८।२।७७

पदच्छेदः॥ हलि ७।१ ७८ र्वोः ६।२ ७५ उपधायाः ६।१ ७५ दीर्घः १।१ ७५ इकः ६।१ ७५ धातोः ६।१ ७४

अर्थः॥

हलि च परतः रेफ-वकारान्तस्य धातोः उपधायाः इकः दीर्घः भवति।

उदाहरणम्॥

रेफान्तस्य -- आस्तीर्णम्, विस्तीर्णम्, विशीर्णम्, अवगूर्णम्। वकारान्तस्य दीव्यति, सीव्यति।
काशिका-वृत्तिः
हलि च ८।२।७७

हलि च परतो रेफवकारान्तस्य धातोः उपधायाः इकः दीर्घः भवति। आस्तीर्णम्। विस्तीर्णम्। विशीर्णम्। अवगूर्णम्। वकारान्तस्य दीव्यति। सिव्यति। धातोः इत्येव, दिवम् इच्छति दिव्यति। चतुरः इच्छति चतुर्यति। इकः इत्येव, स्मर्यते। भव्यम्। अपदान्तार्थो ऽयम् आरम्भः।
लघु-सिद्धान्त-कौमुदी
हलि च ६१५, ८।२।७७

रेफवान्तस्य धातेरुपधाया इको दीर्घो हलि। पिपूर्तः। पिपुरति। पपार॥
न्यासः
हलि च। , ८।२।७७

"दिव्यति, चतुर्यति" इति। दिव्? चतुर्()--इत्युभयं प्रातिपदिकमत्र, तेन न भवति। "स्मेर्यते" इति। भावे यक्(), "गुणोर्त्तिसंयोगाद्योः" ७।४।२९ इति गुणः। "भव्यम्()" इति। "अचो यत्()" ३।१।९७ गुणः; "धातोस्तन्निमित्तस्यैव" ६।१।७७ इत्यवादेशः॥
बाल-मनोरमा
हलि च , ८।२।७७

हलि च। "र्वोरुपधाया दीर्घ इकः" इत्यनुवर्तते। "सिपि धातोः" इत्यतो धातोरिति च। तच्च र्वोरित्यनेन विशेष्यते। तदन्तविधिः। तदाह-रेफवान्तस्येत्यादिना। रेफान्तस्य-जीर्यतीत्युदाहरणम्। अपदान्तत्वात् "र्वोरुपधायाः" इत्यप्राप्ते विधिः। प्रकृते च प्रतिदिव् न् अस् इति स्थिते नकारे हलि परे वान्तस्य दिव्धातोरूपधाया इकारस्य दीर्घ इति भावः। ननु "अचः परस्मि"न्नित्यल्लोपस्य स्थानिवत्त्वादकारेण व्यवधानाद्धल्परत्वाऽभावात्कथमिह दीर्घ इत्याशङ्क्य परिहरति--नचेति। कुत इत्यत आह--दीर्घविधौ तन्निषेधादिति। "न पदान्ते"ति सूत्रेण दीर्घवधौ स्थानिवत्त्वनिषेधादित्यर्थः। नन्वेवमपि भसंज्ञापेक्षस्याऽल्लोपस्य बहिर्भूतप्रत्ययापेक्षत्वेन बहिरङ्गतया तस्याऽन्तरङ्गे दीर्घे कर्तव्येऽसिद्धत्वादकारेण व्यवधानाद्धल्परत्वाऽभावात्कथमिह दीर्घ इत्यत आह-बहिरङ्गेति। यथोद्देशपक्षे षाष्ठीं परिबाषां प्रति श्चुत्वस्याऽसिद्धतयाऽन्तरङ्गाऽभावे परिभाषाया अप्रवृत्तेरिति राजन्शब्दोक्तन्यायेन दीर्घस्याऽसिद्धतया तद्विषये "असिद्धं बहिरङ्ग"मिति परिभाषा न प्रवर्तते इति भावः। प्रतिदीव्न इति। "न भकुर्छुरा"मिति निषेधस्तु वान्तस्याऽभत्वान्नेति भावः। इत्यादीति। प्रतिदिव्ने। प्रतिदीव्नः २। प्रतिदीव्नोः २। भ्यामादौ हलि राजवदित्यर्थः। यज्वन्शब्दः सुटि राजवदित्याह--यज्वेति।

तत्त्व-बोधिनी
हलि च ३१४, ८।२।७७

हलि च। "र्वोरुपधाया दीर्घ इकः"इत्यनुवर्तते, "सिपि धातोः"इत्यतो "धातो"रिति च, तच्च धातुग्रहणं र्वो"रित्यनेन विशेष्यते, विशेषणेन तदन्तविधिस्तदाह----रेफवान्तस्य धातोरित्यादि। रेफान्तस्य तु "गीर्यति""पर्यति""गीर्णं""पूर्ण"मित्याद्युदाहरणानि। धातोः किम्? रेफान्तस्य पदस्य मा भूत्। अग्निः करोति। वायुः करोति। नन्वस्तु धातोरनुवर्तनं परंतु "र्वो"रित्यनेन धातुर्न विशेष्यते--"रेफवान्तस्य धातो"रिति, किं तु इग्विशेष्यते,--"रेफवान्तस्येको दीर्घः स्यात्तौ च रेफवकारौ धातोश्चेत्"। अन्तशब्दोऽत्र समीपवाची। तथाच "उपधायां चे"ति सूत्रं त्यक्तुं शक्यम्, अनेनैव मूर्छतिहूर्छतूत्यादिरूपसिद्धेरिति चेन्मैवम्। "कुर्कुरीयती"त्यादवतिप्रसङ्गः स्यात्। तस्मात् "र्वो"रित्यनेन धातुरेव विशेष्यः। एतच्चाकरे स्पष्टम्। यत्तु "उपधायां चे"ति कैश्चिदुपन्यस्तम्, तन्न, दिवेर्वकारस्याऽनुपधात्वात्। उक्तन्यायेनेति। यथो#एद्देशपक्षे षाष्ठीं परिभाषां प्रति दीर्घस्याऽसिद्धतयेत्यर्थः। प्रतिदिव्न इथि। न भकुर्छुरा"मित्यत्र "र्वो"रित्यनुवर्तनाद्रेफवान्तस्यैव भस्य निषेध इति न दीर्घनिषेधोऽत्र शङ्क्यो, नान्तस्येह भत्वात्।