पूर्वम्: ६।४।१३०
अनन्तरम्: ६।४।१३२
 
सूत्रम्
वसोः सम्प्रसारणम्॥ ६।४।१३१
काशिका-वृत्तिः
वसोः सम्प्रसारणं ६।४।१३१

वस्वन्तस्य भस्य सम्प्रसारणं भवति। विदुषः पश्य। विदुषा। विदुषे। पेचुषः। पश्य। पेचुषा। पेचुषे। पपुषः पश्य। आकारलोपे कर्तव्ये वसुसंप्रसारणस्य व्याश्रयत्वादसिद्धत्वम् न भवति। वसुग्रहणे क्वसोरपि ग्रहणम् इष्यते।
लघु-सिद्धान्त-कौमुदी
वसोः सम्प्रसारणम् ३५५, ६।४।१३१

वस्वन्तस्य भस्य सम्प्रसारणं स्यात्। विदुषः। वसुस्रंस्विति दः। विद्वद्भ्याम्॥
न्यासः
वसोः सम्प्रसारणम्?। , ६।४।१३१

प्रत्ययग्रहणपरिभाषया (भो।प।सू।७) तदन्तस्य कार्यं विज्ञायत इत्याह--"वस्वन्तस्य, इत्यादि। "विदुषः" इति। "विदेः शतुर्वसुः" ७।१।३६। "पेचषः" इति। "क्वसुश्च" ३।२।१०७ इति लिटः क्वमुः, "अत एकहल्मध्ये" ६।४।१२० इत्यादिनैत्तवाभ्यासलोपौ। "पपुषः" इति। "आतो लोप इटि च" ६।४।६४ इत्याकारलोपः। ननु चाकारलोपे कत्र्तव्ये सम्प्रसारणमसिद्धम्(), तत्? कुतोऽत्राकारलोपः? इत्याह--"आकारलोपे कत्र्तव्ये" इत्यादि। आकारलोपः सम्प्रसारणे, तत्तु विभक्ताविति वयाश्रयत्वम्(), अतो नास्त्यसिद्धत्वम्()। ननु च एकानुबन्धकग्रहणे न द्व्यनुबन्धकस्य" (व्या।प।५२) इति, "तदनुबन्धकग्रहणे नातदनुबन्धकस्य" (व्या।प।५४) इति वा न क्वसोरिह ग्रहणेन भवितव्यम्(), तत्? कथं पपुषः, पेचुष इत्यत्र सम्प्रसारणं भवति? इत्याह--"वसुग्रहणे" इत्यादि। एतत्तु शत्रादेशस्य वसोरुकारानुबन्धकरणाद्वेदितव्यम्()। उकारानुबन्धस्य ह्रेतदेव फलम्()--इह सामान्येन ग्रहणं यथा स्यात्()। ननु चोगत्त्वार्थं तत्? स्यात्()? नैतत्(); उगित्कार्यस्य स्थानिवद्भावेनैव सिद्धत्वात्()॥
बाल-मनोरमा
वसोः संप्रसारणम् , ६।४।१३१

शसादावचि विशेषमाह--वसोः संप्रसारणं। प्रत्ययग्रहणपरिभाषया वसोरिति तदन्तग्रहणं भस्येत्यधिकृतं। तदाह--वस्वन्तस्येति। पूर्वेति। शसि वकारस्य उत्वे विदु अस् इति स्थिते, "संप्रसारणाच्चे"ति पूर्वरूपे, विदुस् इति स्थिते, प्रत्ययावयवत्वात्सस्य षत्वमित्यर्थः। "षत्वतुकोरसिद्ध" इति पूर्वरूपस्याऽसिद्धत्वं न शङ्क्यं, पदान्तपदाद्योरेकादेश एव तत्प्रवृत्तेः। सुपि दत्वे चत्र्वम्। विद्वत्सु। सेदिवानिति। "षद्वलृ विशर()णगत्यवसादनेषु" "धात्वादेः षः सः", "भाषायां सदवसश्रुवः" इति लिटः क्वसुः, उकावितौ, "लिटि धातोः" इति द्वित्वं, हलादिशेषः, "अत एकहल्मध्ये" #इत्येत्त्वाभ्यासलोपौ, "वस्वेकाञाद्धसा"मिति इट्। सेदिवस्शब्दः। ततः सुः, उगित्त्वान्नुम्, "सान्तमहतः" इति दीर्घः, सुलोपः, सस्य संयोगान्तलोपः, तस्याऽसिद्धत्वान्नलोपो न। सान्तवस्वन्तत्वाऽभावान्न दत्वमिति भावः। सेदिवांसाविति। नुमि "सान्तमहतः" इति दीर्घः। ननु उक्तरीत्या निषपन्नात्सेदिवस्शब्दाच्छसि "वसोः संप्रसारण"मिति वकारस्य उत्वे पूर्वरूपे इकारस्य यणि "सेद्युषः" इति स्यात्। ततश्च "सेदुषः" इति वक्ष्यमाणं रूपमयुक्तम्। नच शसि भविष्यति भविष्यत्संप्रसारणरूपकार्यं पर्यालोच्य पूर्वमेव इट् न प्रवर्तते, पदावधिकान्वाख्यानाभ्युपगमादिति वाच्यम्, एवमपि बहिर्भूतयजाद्यसर्वनामस्थानस्वादिप्रत्ययनिमित्तकभसंज्ञापेक्षतया संप्रसारणस्याङ्गस्य बहिरङ्गत्वेन इडागमस्यैवान्तरङ्गत्वात्प्रथमं प्रवृत्तेः, परादन्तरङ्गस्य बलवत्त्वादित्यत आह--अन्तरङ्गोऽपीति। अकृतेति। भविष्यता संप्रसारणेन बलादित्वस्य विनाशोन्मुखत्वादिति भावः। वस्तुतस्तु प्रथममपि सेदिवस्शब्दादेव सुबुत्पत्तिरस्तु, तथापि वकारस्य संप्रसारणे उत्वे कृते, यणि सत्यपि संप्रसारणस्य बहिरङ्गत्वेनाऽसिद्धत्वात् "लोपो व्योः" इति लोपे "सेदुष" इति रूपं सिद्धम्। नच "नाजानन्तर्ये बहिष्ट्वप्रक्लृप्ति"रिति निषेधः शङ्क्यः, उत्तरकालप्रवृत्तिकेऽजानन्तर्य एव तत्प्रवृत्तेरभ्युपगमात्। इह च उत्तरकालप्रवृत्तिके वलि लोपे तदभावात्। किंच कृते इटि संप्रसारणप्रवृत्तावपि वलादित्वरूपनिमित्तनिवृत्त्या इटो निवृत्तौ "सेदुष" इति निर्बाधं। "निमित्ताऽपाये नैमित्तिकस्याप्यपायः" इति न्यायात्। किंच पदावधिकान्वाख्यानेऽपि सेद्वस् अस् इति स्थिते इट्संप्रसारणयोः प्राप्तौ प्रतिपदविधित्वेन शीर्घोपस्थितिकत्वात्प्रथमं संप्रसारणे वलादित्वाऽभावादिटः प्राप्तिरेव नास्तीति "सेदुषः" इति निर्बाधमित्याहुः। इत्यादीति। सुपि--सेदिबत्सु। "हिसिं हिंसायाम्" इदित्त्वान्नुम्, सुपूर्वात्क्विप्, इदित्त्वान्नलोपो न, "नश्चे"त्यनुस्वारः, सुहुंस्शब्दात्सोर्लोपः, सकारस्य संयोगान्तलोपः, तस्याऽसिद्धत्वान्नलोपो न। नापि "सर्वनामस्थाने चे"ति दीर्घः। निमित्तापायादनुस्वारनिवृत्तिः। सुहिन् इति सौ रूपं वक्ष्यति। तत्र "सान्तमहतः" इति दीर्घमाशङ्क्य आह--सान्तेति। सुहिन्भ्यामिति। "स्वादिषु" इति पदान्तत्वात्सस्य संयोगान्तलोपे निमित्ताऽपायादनुस्वारनिवृत्तिरिति भावः। सुबिन्स्विति। संयोगान्लोपेऽनुस्वारनिवृत्तिः। सुपः सकारमाश्रित्य पुनरनुस्वारस्तु न, पदान्तत्वात्। ध्वदिति। ध्वंसु अवरुआंसने कृतानुस्वारनिर्देशः। क्विप्, अनुस्वारस्याऽसिद्धत्वात् " अनिदिताम्" इति नलोपः। सोर्लोपः। "वसुरुआंसु" इति दत्वम्। "वाऽसाने" इति चत्र्वविकल्प इति भावः। एवमिति। "रुआंसु अवरुआंसने" क्विबादि पूर्ववदिति भावः। "पूञ्पवने" अस्मात् "पूञो डुम्सुन्" इति उणादिसूत्रेण डुम्सुन्प्रत्ययः। डकारो नकार उकारश्च इत्। डित्त्वसामथ्र्यादभस्यापि टेर्लोपः। पुंस्शब्दात्सुबुत्पत्तिः।

तत्त्व-बोधिनी
वसोः सप्रसारणम् ३८७, ६।४।१३१

वसोः। प्रत्ययग्रहणे तदन्तग्रहणमित्याह--वस्वन्तस्येति। सेदिवानिति। "भाषायां सदवसश्रुवः"इति लिटः क्वसुः। "लिटि धातो"रितिद्वित्वम्, "हलादिः शेषः""अत एकहल्मध्ये"इत्येत्वाभ्यासलोपौ। "वस्वेकाजाद्धसा"मितीट्। नुम्। "सान्ते"ति दीर्घः। सेदुष इति। ननु "तदनुबन्धकग्रहणे नाऽतदनुबन्धकस्ये"ति परिभाषया "विदेः शतुर्वसु"रित्यस्यैव वसोः संप्रसारणं युक्तं, न तु क्वसोः। सत्यम्। वसोरुकारानुबन्धकरणं क्वसोः सामान्यग्रहणार्थम्। उगित्त्वस्य स्थामिवद्भावेनाऽपि सिद्धेः। इह गमिप्रभृतिभ्यः क्वसुर्नोदाह्मतः, छान्दसत्वात्। अतएव वैदिकप्रक्रियायां"तस्थिवान्""जग्निवान्ित्याद्युदाहर्तव्यं नाऽत्रेत्याहुः। कवयस्तु प्रयुञ्जते--"श्रेयांसि सर्वाण्यधिजग्मुषस्ते"। "तं तस्थिवांसं नगरोपकण्ठे"इत्यादि। अत्र वदन्ति--छान्दसा अप्।येके पद्ददादय इव क्वचिद्भाषायां भवन्ति, "मासश्छन्दसी"त्यस्य सामान्यापेक्षज्ञापकत्वाश्रयणा[दिति]कथंचित्सामाधेयमिति। सुहिनिति। संयोगान्तलोपस्याऽसिद्धत्वान्नोपधादीर्घः। सुहिन्त्स्विति। "नश्चे"ति सस्य वा धुट्। ध्वसत इति ध्वत्। रुआंसत इति रुआत्।"रुआसु ध्वंसु अवरुआंसने" "ध्वंसु गतौ याचने चे"त्याभ्यां क्विप्। "अनिदिता"मिति नलोपः। "वसुरुआसु"इति दत्वम्।