पूर्वम्: ६।४।१५५
अनन्तरम्: ६।४।१५७
 
सूत्रम्
स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः॥ ६।४।१५६
काशिका-वृत्तिः
स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः ६।४।१५६

स्थूल दूर युव ह्रस्व क्षिप्र क्षुद्र इत्येतेषां यणादिपरं लुप्यते इष्ठेमेयस्सु परतः, पूर्वस्य च गुणो भवति। स्थूल स्थविष्ठः। स्थवीयान्। दूर दविष्ठः। दवीयान्। युवन् यविष्ठः। यवीयान्। ह्रस्व ह्रसिष्ठः। ह्रसिमा। ह्रसीयान्। क्षिप्र क्षेपिष्ठः। क्षेपिमा। क्षेपीयान्। क्षुद्र क्षोदिष्ठः। क्षोदिमा। क्षोदीयान्। ह्रस्वक्षिप्रक्षुद्रशब्दाः पृथ्वादिषु पठ्यन्ते। परग्रहणं किम्? यविष्ठः, यवीयान्, ह्रसिष्ठः, ह्रसीयानित्यत्र पूर्वस्य यणादेर्लोपो मा भूत्। पूर्वग्रहणं विस्पष्टार्थम्।
न्यासः
स्थूलदूरयुवह्वस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः। , ६।४।१५६

यद्यपि पूर्वं भावसाधनो लोपशब्द उपात्तः, तथापीह कर्मसाधनो गृह्रते; यणादिपरिमिति निर्देशात्()। भावसाधने हि तस्मिन्? "कर्त्तृकर्मणओः कृति" २।३।६५ इति षष्ठी स्यात्()। कर्मसाधने तु कर्मणस्तेनैषाभिहितत्वात्? प्रथमैव युज्यत इति मन्यमानो लापशब्दस्य कर्मशब्दस्य कर्मसाधनतां दर्शयन्नाह--"यणादिपरं लुप्यते" इति। कथं पुनस्तस्यैव भावसाधनस्य सतः कर्मसाधनतोपपद्यते? कः पुनराह--"तस्यैव" इति! प्रतिसूत्रं ह्रनुवत्र्तमानो लोपशब्दो भिद्यते। ननु च यणादौ परस्मिन्? लुप्ते सामथ्र्यात्? तत्पूर्वस्यैव गुणो विज्ञास्यते, तत्? किमर्थं पूर्वग्रहणम्()? इत्याह--"पूर्वग्रहणं विस्पष्टार्थम्()" ति॥
बाल-मनोरमा
स्थूलदूरयुवह्यस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः , ६।४।१५६

स्थूलदूर। एषामिति। स्थूल, दूर, युवन् ह्यस्व, क्षिप्र, क्षुद्र इत्येतेषामित्यर्थः। यणादीति। यण्--आदिर्यस्येति विग्रहः। "पर"मिति "यणादी"त्यस्य विशेषणम्। परभूतंयणादीत्यर्थः। लुप्यत इति। "अल्लोपोऽनः" इत्यतोऽनुवृत्तं लोपपदमिह कर्मणि घञन्तमाश्रीयत इत्यर्थः। भावसाधनत्वे परमित्यनेन सामानाधिकरण्याऽसंभवात्। पूर्वस्येति। पूर्वत्वं यणपेक्षया बोध्यम्। इष्ठादिष्विति। "तुरिष्ठेमेयस्सु" इत्यतस्तदनुवृत्तेरिति। भावः। स्थविष्ठ इति। स्थूलशब्दादिष्ठनि ल इत्यस्य लोपे ऊकारस्य गुण ओकारः। अवादेश इति भावः। ओर्गुणस्तु न प्रवर्तते, यणादिलोपस्याऽ‌ऽभीयत्वेनासिद्धत्वात्। एवमग्रेऽपि। दविष्ठ इति। दूरशब्दादिष्ठनि र इत्यस्य लोपे ऊकारस्य गुणे अवादेशः। यविष्ठ इति। युवन्शब्दादिष्ठनि "व"न्नित्यस्य लोपे गुणे अवादेशः। "पर"मित्यनुक्तौ "यु" इत्यस्यापि यणादेर्लोपः स्यात्। ह्यसिष्ठ इति। ह्यस्वशब्दादिष्ठनि "व" इत्यस्य लोपः। "पर"मित्यनुक्तावत्र रादेर्लोपः स्यात्। क्षेपिष्ठ इति। क्षिप्रशब्दादिष्ठनि र इत्यस्य लोपः, उकारस्य गुणः। एवमीयसिति। स्थवीयान्, दवीयान्, यवीयान्, ह्यसीयान्, क्षेपीयान्, क्षोदीयान्। इमनिजनुवृत्तेः प्रयोजनमाह--ह्यस्वक्षिप्रेति।

तत्त्व-बोधिनी
स्थूलदूरयुवह्यस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः १५०८, ६।४।१५६

स्थूलदूर। परग्रहणं यविष्ठो ह्यसिष्ठ इत्यत्र पूर्वयणादेर्वोपो माभूदिति। पूर्वग्रहणं तु स्पष्टार्थम्। परस्मिन् लुप्ते सामथ्र्यात्पूर्वस्यैव गुणवलाभात्। स्थविष्ठ इति। न चाऽत्र "ओर्गुम"इत्येव सिद्धे गुणग्रहणं व्यर्खमिति वाच्यं, परयणादिलोपस्याभीयत्वेनाऽसिद्धत्वात् क्षिप्रक्षुद्रयोरोर्गुणस्य प्राप्त्यभावात्। क्षेपिष्ठः क्षोदिष्ठ इत्यसिद्धिप्रसङ्गाच्च। एवमिति। प्रेयान्। स्थेयान्। स्फेयाम्। वरीयानित्यादि। इमेयसोर्लोप इति। स च "आदेः परस्ये"इत्यादेरेव भवति।