पूर्वम्: ६।४।१५६
अनन्तरम्: ६।४।१५८
 
सूत्रम्
प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घ- वृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः॥ ६।४।१५७
काशिका-वृत्तिः
प्रियस्थिरस्फिरौरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः ६।४।१५७

प्रिय स्थिर स्फिर उरु बहुल गुरु वृद्ध तृप्र दीर्घ वृन्दारक इत्येतेषां प्र स्थ स्फ वर् बंहि गर् वर्षि त्रप् द्राधि वृन्द इत्येते यथासङ्ख्यम् आदेशा भवन्ति इष्ठेमेयस्सु परतः। प्रिय प्रेष्ठः। प्रेमा। प्रेयान्। स्थिर स्थेष्ठः। स्थेयान्। स्फिर स्फेष्ठः। स्फेयान्। उरु वरिष्ठः। वरिमा। वरीयान्। बहुल बंहिष्ठः। बंहिमा। बंहीयान्। गुरु गरिष्थः। गरिमा। गरीयान्। वृद्ध यर्षिष्ठः। वर्षीयान्। तृप्र त्रपिष्ठः। त्रपीयान्। दीर्घ द्राधिष्ठः। द्राधिमा। द्राधीयान्। वृन्दारक वृन्दिष्ठः। वृन्दीयान्। प्रियोरुगुरुबहुलदीर्घाः पृथ्वादिषु पठ्यन्ते, तेन अन्येषामिमनिज् न भवति इति नोदाह्रियते।
न्यासः
प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवंर्बहिगर्वर्षित्रब्द्राघिवृन्दाः। , ६।४।१५७

किं पुनः कारणं प्रियोरुगुरुदीर्घाणामेवेमनिजुदाह्यियते, नान्येषाम्()? इत्याह--"प्रियोरुबहुलगुरुदीर्घाः" इत्यादि। "प्रियादिभ्य एवेमनिच्? सम्भवति, नान्येभ्यः" इत्येवम्परमेतद्वाक्यमित्यर्थः। अन्यथा यद्यपि प्रियादय एव पृथ्त्रादिषु पठ()न्ते, वर्णावाचिनो वा स्युः, तदोदाह्यियेतेमनिच्? तेषामित्यकारणमेदिमनिचोऽत्रोदाहरणं स्यात्()॥
बाल-मनोरमा
प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धप्रदीर्घबृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रन्द्राघिवृन्दाः , ६।४।१५७

प्रियस्थिर। प्रियादीनामिचि। प्रिय, स्थिर, स्फिर, उरु, बहुल, गुरु, वृद्ध, तृप्र, दीर्घ,बृन्दारक एषां दशानामित्यर्थः। प्रादय इति। प्र, स्थ, स्फ, वर्, बंहि, गर्, वर्षि, त्रप्, द्राघि, बृन्द एते दशेत्यर्थः। इष्ठादिष्विति। इष्ठेमेयस्स्वित्यर्थः। "तुरिष्ठेमेयः सु" इत्यतस्तदनुवृत्तेरिति भवः। प्रेष्ठ इति। प्रियशब्दादिष्ठनि प्रकृतेः प्रादेशः। आभीयत्वेनाऽसिद्धत्वादकारोच्चारणसामथ्र्याच्च न टिलोपः। स्थेष्ठ इति। स्थिरशब्दादिष्ठनि प्रकृतेः स्थादेशः। प्रकृतिभावान्न टिलोपः। स्फेष्ठ इति। स्फिरशब्दस्य इष्ठनि स्फादेशः। वरिष्ठ इति। उरुशब्दादिष्ठनि "वर्" आदेशः। बंहिष्ठ इति। बहुलशब्दस्य "बहिं" इत्यादेशः। इकार उच्चारणार्थः। अन्यथा आभीयत्वेनाऽसिद्धत्वादुच्चारणसामथ्र्याद्वा इकारस्य लोपो न स्यात्। गरिष्ठ इति। गुरुशब्दस्य इष्ठनि "गर्" आदेशः। वर्षिष्ठ इति। वृद्धशब्दस्य इष्ठनि वर्षिरादेशः। बंहिवदिकार उच्चारणार्थः। त्रपिष्ठ इति। तृप्रशब्दस्य इष्ठनि "त्रप्" आदेशोऽदुपधः। तृपधातोस्तृप्त्यर्थकादौकादौणादिके रकि तृप्रशब्दः। द्राधिष्ठ इति। दीर्घशब्दस्य इष्ठनि "त्रप्" आदेशोऽदुपधः। तृपधातोस्तृप्त्यर्थकादौणादिके रकि तृप्रशब्दः। द्राधिष्ठ इति। दीर्घशब्दस्य इष्ठनि द्राधिरादेशः। बंहिवदिकार उच्चारणार्थः। वृन्दिष्ठ इति। वृन्दारकशब्दस्य इष्ठनि बृन्द आदेशः। अकार उच्चारणार्थः। एवमीयसुन्निति। "प्रेयान्, स्थेयान्, स्फेयान्, वरीयान्, बंहीयान्, गरीयान्, वर्षीयान्, त्रपीयान्, द्राधीयान्, वृन्दीयान्। अत्र इमनिजनुवृत्तेः प्रयोजनमाह--प्रियोरुबहुलेति। इत्यादीति। वरिमा, बंहिमा, गरिमा, द्राधिमा।