पूर्वम्: ६।४।१६०
अनन्तरम्: ६।४।१६२
 
सूत्रम्
र ऋतो हलादेर्लघोः॥ ६।४।१६१
काशिका-वृत्तिः
र ऋतो हलादेर् लघोः ६।४।१६१

रशब्द आदेशो भवति ऋकारस्य हलादेर् लघोः इष्ठेमेयस्सु परतः। प्रथिष्ठः। प्रथिमा। प्रथीयान्। म्रदिष्ठः। म्रदिमा। म्रदीयान्। ऋतः इति किम्? पटिष्ठः स्। पटिमा। पटीयान्। हलादेः इति किम्? ऋजिष्ठः। ऋजिमा। ऋजीयान्। लघोः इति किम्? कृष्णा कृष्णिष्ठः। कृष्णिमा। कृष्णीयान्। परिगणनम् अत्र कर्तव्यम्। पृथुं मृदुं भृशं च एव कृशं च दृढम् एव च। परिपूर्वं वृढं च एव षडेतान् रविधौ स्मरेत्। ततः इह न भवति, कृतमाचष्टे कृतयति। मातरमाचष्टे मातयति। भ्रातयति।
लघु-सिद्धान्त-कौमुदी
र ऋतो हलादेर्लघोः ११५९, ६।४।१६१

हलादेर्लघोरृकारस्य रः स्यादिष्ठेयस्सु परतः। पृथुमृदुभृशकृशदृढपरिवृढा नामेव रत्वम्॥
न्यासः
र ऋतो हलादेर्लघोः। , ६।४।१६१

"कत्र्तव्यम्()" इति। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्()--उत्तरसूत्रे यद्विभाषाग्रहणं तदिहापि सम्बध्यते, सा च व्यवस्थितविभाषा, तेन पृथ्वादीनामेव भविष्यति। यद्येवम्(), "हलादेर्लघोः" इत्येतन्न कत्र्तव्यम्(), व्यवस्थितविभाषया हलादेर्लघोश्च भविष्यति? सत्यमेतत्(); तद्विस्पटार्थं क्रियते। "तत इह न भवति" इत्यादि। अक्रियमाणे तु परिगणने कृतयतीत्यादावपीष्ठवद्बावेन स्यादेवेति भावः॥
बाल-मनोरमा
र ऋतो हलादेर्लघोः १७६२, ६।४।१६१

र ऋतो। र इति प्रथमान्तम्। इष्ठेमेयस्स्विति। शेषपूरणम्। "तुरिष्ठेमेयस्सु" इत्यस्तदनुवृत्तेरिति। भावः। अङ्गस्येत्यधिकृतं हलादेरङ्गस्य लघोरृकारस्य र इति। रेपाकारसङ्गात आदेशः स्यादिष्ठनि इमनिचि ईयसि च परे इत्यर्थः।

तत्त्व-बोधिनी
र ऋतो हलादेर्लघोः १३५९, ६।४।१६१

र ऋतो। हलादेः किम्()। ऋजिष्ठः। ऋजीयान्। लघोः किम्()। कृष्णिमा। "पृथुमृदुभृशे "ति परिगणने तु "हलादेर्लघो"रिति त्यक्तुं शक्यम्।