पूर्वम्: ६।४।३१
अनन्तरम्: ६।४।३३
 
सूत्रम्
जान्तनशां विभाषा॥ ६।४।३२
काशिका-वृत्तिः
जान्तनशां विभाषा ६।४।३२

जान्तानाम् अङ्गानां नशेश्च क्त्वाप्रत्यये परतः विभाषा नकारलोपो न भवति। रङ्क्त्वा, रक्त्वा। भङ्क्त्वा, भक्त्वा। नश नंष्ट्वा, नष्ट्वा। इट्पक्षे नशित्वा।
न्यासः
जान्तनशां विभाषा। , ६।४।३२

"नष्ट्वा, नंष्ट्वा" इति। नशेः व्रश्चादि ८।२।३६ सूत्रेण षत्वम्(), ष्टुत्वम्()। "मस्जिनशोर्झलि" ७।१।६० इति मुमागमः। "ज" इति वर्णग्रहणम्(), तत्र वर्णग्रहणे सर्वत्र तदन्तविधिं प्रयोजयतत्यन्तरेणाप्यन्तग्रहणेन तदन्तविधौ सिद्धे, यदिहान्तग्रहणं क्रियते तद्धिस्पष्टार्थम्(), यत्त्वाह--अनुपधाया अपि पक्षे लोपस्य प्रतिषेधार्थमन्तग्रहणम्(), तद्यथा--"भक्त्वा, भङ्क्त्वा" इति, तन्न; केन पुनरनुपधाभूतस्य नकारस्या लोपः प्राप्नोति, यतोऽसौ पक्षे प्रतिषिध्यते। उपधानकारस्य लोप उक्तः, न चायमुपधानकारः। एवं तर्हि विधि विषयादन्यत्रापि क्वचिल्लोपो नकारस्य भवतीति ज्ञापयति। तेनैतत्? सिद्धं भवित--"मग्नः, मग्नदान्()" इति। ततश्चैतद्रथं "मस्जेरन्त्यात्पूर्वं नुममिच्छन्त्यनुषङ्गलोपार्थम्()" इत्येतन्न वक्तव्यं भवति। तत्र यदीदं नोच्येत, तदा यस्मिन्? पक्षे क्त्वाप्रत्ययेन लोपो न भवति, तस्मिन्? पक्षे "स्कोः संयोगाद्योरन्ते च" ८।२।२९ इति सलोपोऽपि न स्यात्(); असंयोगादित्वात्()। तस्माद्वक्तव्यमेवेदम्()--"मस्जेरन्त्यात्पूर्वं नुममिच्छन्ति" इति। ततश्चानुपधाभूतस्य नकारस्य लोपभाविनोऽसम्भवादनुपधाभूतस्य नकारस्य लोपप्रतिषेधो यथा स्यादेवमर्थमन्तग्रहणं न युज्यते॥