पूर्वम्: ७।१।५९
अनन्तरम्: ७।१।६१
 
सूत्रम्
मस्जिनशोर्झलि॥ ७।१।६०
काशिका-वृत्तिः
मस्जिनशोर् झलि ७।१।६०

मस्जि नशि इत्येतयोरङ्गयोः झलादौ प्रत्यये नुमागमो भवति। मङ्क्ता। मङ्क्तुम्। मङ्क्तव्यम्। नंष्टा। नंष्टुम्। नंष्टव्यम्। झलि इति किम्? मज्जनम्। नशनम्। मस्जेरन्त्यात् पूर्व नुमम् इच्छन्ति अनुषङ्गादिलोपार्थम्। मग्नः। मग्नवन्।
लघु-सिद्धान्त-कौमुदी
मस्जिनशोर्झलि ६३९, ७।१।६०

नुम् स्यात्। ननंष्ठ। नेशिव, नेश्व। नेशिम, नेश्म। नशिता, नंष्टा। नशिष्यति, नङ्क्ष्यति। नश्यतु। अनश्यत्। नश्येत्। नश्यात्। अनशत्॥ षूङ् प्राणिप्रसवे॥ १३॥ सूयते। सुषुवे। क्रादिनियमादिट्। सुषुविषे। सुषुविवहे। सुषुविमहे। सविता सोता॥ दूङ् परितापे॥ १४॥ दूयते॥ दीङ् क्षये॥ १५॥ दीयते॥
न्यासः
मस्जिनशोर्झलि। , ७।१।६०

"मङ्क्ता" इति। "टुमस्जो शुद्धौ" (धा।पा।१४१५), तृच्(), पूर्ववदिडभावः, कुत्वञ्च, अन्त्याज्जकारात्? पूर्वो नुम्(), "स्कोः" ८।२।२९ इत्यादिना सकारलोपः, अनुस्वत्रपरसवर्णो। "नेष्टा" इति। "रधादिभ्यश्च" ७।२।४५ इति यदेण्नास्ति तदायं नुम्(), व्रश्चादिसूत्रेण ८।२।३६ षत्वम्(), ष्टुत्वम्()। इट्पक्षे झलादित्वाभावान्नुम्? नास्ति--नशितेति। "मज्जनम्(), नशनम्()" इति। ल्युट्(), "झलां जश्? झशि" ८।४।५२ इति जश्त्वम्()--सकारस्य दकारः, तस्य चत्वं जकार-। "मस्जेः" इत्यादि। यदि मस्जेरन्त्यादचः परो नुम्? स्यात्(), असंयोगदित्वात्? मलोपो न प्राप्नोति, अनुपधत्वान्न नलोपः, स चेष्यते; अन्यथा मग्नो मानवानिति न सिध्यत्()। तस्मादन्त्यात्पूर्वमाचार्या मस्जेर्नुममिच्छन्ति। कथं पुनरिष्यमाणोऽप्ययमर्थो लभ्यते? नशेरल्पाच्तरस्य पूर्वनिपातलक्षमव्यभिचारचिह्नात्()। स हि लक्षणनिरपेक्षतां सूचयन्? "मिदयोऽन्त्यात्परः" १।१।४६ इत्येतदपीह लक्षणं नापेश्रत इति सचयति। त()स्मश्चानपेक्षिते लक्ष्यानुरोधाद्यत्र मस्जेर्नुमि कृते सतीष्टं सिध्यति तत्रैव विधीयते। तेन मस्जेरन्त्यास्पर्वं नुम्? सिद्धो भवति। "मग्नः" इति। "ओदितश्च" ८।२।४५ इति निष्ठानत्वम्()॥
बाल-मनोरमा
मस्जिनशोर्झलि ३४७, ७।१।६०

नुम् स्यादिति। "इदितो नु"मित्यतस्तदनुवृत्तेरिति बावः। ननंष्ठेति। व्रश्चादिषत्वम्। ष्टुत्वम्। प्रणश्यतीति। "उपसर्गादसमासे"इति णत्वम्।

तत्त्व-बोधिनी
मस्जिनशोर्झलि ३०४, ७।१।६०

नष्टेति। "नशेर्वा" इति कुत्वमिहन शङ्क्यं, पदान्त एव तद्विधानात्। अन्यथा नष्टं नष्टिरित्यादि न सिध्येत्। प्रणश्यतीति। "उपसर्गादसमासेऽपी"ति णत्वम्।