पूर्वम्: ६।४।५८
अनन्तरम्: ६।४।६०
 
सूत्रम्
क्षियः॥ ६।४।५९
काशिका-वृत्तिः
क्षियः ६।४।५९

क्षियश्च दीर्घो भवति ल्यपि परतः। प्रक्षीय।
न्यासः
क्षियः। , ६।४।५९

"छन्दसि" इति निवृत्तम्()। "क्षियः" इति "निरनुबन्धकग्रहणे न सानुबन्धकस्य" (व्या।प।५३) इति "क्षि क्षये" (धा।पा।२३६) "क्षि निवासगत्योः" (धा।पा।१४०७) इत्यनयोग्र्रहणम्(), न "क्षिष्? हिंसायाम्()" (धा।पा।१५०६) ["क्षीष्()"--धा।पा।] इत्यसय॥