पूर्वम्: ६।४।६०
अनन्तरम्: ६।४।६२
 
सूत्रम्
वाऽ‌ऽक्रोशदैन्ययोः॥ ६।४।६१
काशिका-वृत्तिः
वा आक्रोशदैन्ययोः ६।४।६१

आक्रोशे गम्यमाने दैन्ये च क्षियो निष्ठायाम् अण्यदर्थे वा दीर्घो भवति। क्षितायुरेधि, क्षीणायुरेधि। दैन्ये क्षितकः, क्षीणकः। क्षितो ऽयं तपस्वी, क्षीणो ऽयं तपस्वी।
न्यासः
वाऽ‌ऽक्रोशदैन्ययोः। , ६।४।६१

"क्षितायुः" इति। पूर्ववत्? कर्तरि क्तः। एवमुतरत्रापि। "क्षितकः" इति। अनुकम्पायां कन्()। आकोशदैन्याभ्यामन्यत्र पूर्वेण नित्यं भवति। अण्यदर्थ इति किम्()? क्षितं जाल्मस्य, क्षितकमस्य तपस्विनः॥
बाल-मनोरमा
वाऽ‌ऽक्रोशदैन्ययोः ८८७, ६।४।६१

वाऽ‌ऽक्रोशदैन्ययो-। अण्यदर्थ इत्यनुवर्तते। "ण्यदर्थो भावकर्मणी"इत्युक्तम्। आक्रोशे उदाहरति-- क्षीणायुर्भवेति। "गत्यर्थाकर्मके"ति कर्तरि क्तः। दैन्ये उदाहरति-- क्षीणोऽयं तपस्वीति। कृश इत्यर्थः।