पूर्वम्: ७।१।१०
अनन्तरम्: ७।१।१२
 
सूत्रम्
नेदमदसोरकोः॥ ७।१।११
काशिका-वृत्तिः
न इदमदसोरकोः ७।१।११

इदम् अदसित्येतयोः अककारयोः भिस ऐस् न भवति। एभिः। अमीभिः। अकोः इति किम्? इमकैः। अमुकैः। अकोः इत्येतदेव प्रतिषेधवचनं ज्ञापकम् तन्मध्यपतितस्तद्ग्रहनेन गृह्यते इति। इदमदसोः कातिति नोक्तम्, विपरीतो ऽपि नियमः सम्भाव्येत इदमदसोरेव कातिति। ततश्च इह न स्यात्, सर्वकैः, विश्वकैः। इह च स्यादेव, एभिः, अमीभिः। प्रतिषेधकरणं विपरीतनियमनिवृत्त्यर्थम्।
लघु-सिद्धान्त-कौमुदी
नेदमदसोरकोः २८१, ७।१।११

अककारयोरिदमदसोर्भिस ऐस् न। एभिः। अस्मै। एभ्यः। अस्मात्। अस्य। अनयोः। एषाम्। अस्मिन्। अनयोः। एषु॥
न्यासः
नेदमदसोरकोः। , ७।१।११

अविद्यमानः ककारो ययोस्तवकौ। "एभिः" इति। इदमस्त्यदाद्यत्वम्(), "बहुवचने झल्येत्()" ७।३।१०३ इत्येत्त्वम्(), "हलि लोपः" ७।२।११३ इतीद्रूपस्य लोपः। "अमीभिः" इति। अदस एत्त्वे कृते "एत ईदवहुवचने" ८।२।८१ इतीत्त्वम्(), दस्य च मत्वम्()। "इमकैः" इति। "अव्ययसर्वनाम्नामकच्प्रक्टोः" ५।३।७१ इत्यकच्(), "दश्च" ७।२।१०९ इति दकारस्य मत्वम्()। "अमुकैः इति। "अदसोऽसोर्दादु दो मः" ८।२।८० इति मत्वोत्वे। अथ "नेदमदसोः" इत्येवं कस्मान्नोक्तम्(), किमकोरत्यनेन, अकोरित्यनुच्यमाने सककारयोरपि अतिषेधः स्यादिति चेत्()? नैतदस्ति; इदमदसोर्हि प्रतिषेध उच्यमानः कः प्रसह्गो या सककारयोः स्यात्()? नैव प्राप्नोति शब्दान्तरत्वादित्याह--"अकोरित्येत्()" इत्यादि। ज्ञापकस्य प्रयोजनम्()--अकज्वतां सर्वनामसंज्ञा सर्वादीनाम्(), स्वरादीनाञ्चाव्ययसंज्ञा। अथ "इदमदसोः कात्()" इति कस्मान्नोक्तम्(), तत्र पूवणैव सिद्धे नियमार्थ भविष्यति--इदमदसोः सम्बन्धो यो भिस्? तस्य कादेव परस्यैस्? भवति, इत्येवं विज्ञायमाने नियमे सर्वमभीष्टं नियमे सर्वमभीष्टं सिध्यत्येव, लघु च सूत्रं भविष्यति? सत्यमेतत्(); किन्त्वस्मिन्? सूत्रविन्यासे "तन्मध्यपतितस्तद्ग्रहणेन गृह्रते" (व्या।प।२१) इत्येषा न ज्ञापिता स्यात्()। विपरीतनियमोऽपि भन्दधीभिराशङ्क्येत--इदमदसोरेव कादिति। तत्रायं नियमार्थः स्यात्()--इदमदसोरेव यः ककारस्तस्मात्? परस्य भिस ऐस्भवतीति। ततो वि()आकैः, सर्वकैरित्यत्र न स्यात्(); नियमेन व्यावर्त्तितत्वात्()। इह च स्यादेव--एभिः, अमीभिरिति। नियमेनाव्यावर्त्तितत्वात्()। तस्माद्यथान्यासमेवास्तु॥
तत्त्व-बोधिनी
नेदमदसोरकोः ३०९, ७।१।११

नेदमदसोः। भाष्ये तु "इदमदसोः कात्"। नियमार्थमिदम्। "इदमदसोः कादेव भिस ऐस् नान्यतः"इति स्थितम्। नव्यास्तु--"इदमदसो का"दिति सूत्रिते तु "काद्भिस ऐस् इदमसोरेवे"ति विपरितनियमोऽपि संभाव्येत। तथाच "पाचकै"रित्यादि न सिध्येत्। किं तु "इदमदसोः काद्भिस ऐस्"तः"इत्येव सूत्रद्वयं सुवचमित्याहुः। स्मायादेशात्परत्वादनादेशः स्यादित्याशङ्कायामाह--नित्यत्वान्हेः स्मै इति।