पूर्वम्: ७।१।३४
अनन्तरम्: ७।१।३६
 
सूत्रम्
तुह्योस्तातङाशिष्यन्यतरस्याम्॥ ७।१।३५
काशिका-वृत्तिः
तुह्योस् तातङाशिष्यन्यतरस्याम् ७।१।३५

तु हि इत्येतयोः आशिषि विषये तातङादेशो भवत्यन्यतरस्याम्। जीवताद् भवान्। जीवतात् त्वम्। जीवतु भवान्। जीव त्वम्। ङित्करणम् गुणवृद्धिप्रतिषेधार्थम् इति सर्वादेशस्तातङ् भवति। ङित्त्वाच् चास्य स्थानिवद्भावात् यत् पित्त्वं प्राप्नोति तन्निवर्तते। ङिच्च पित् न भवति। तेन ब्रुव ईट् ७।३।९३ इति ब्रूताद् भवानिति ईट् न भवति। आशिषि इति किम्? ग्रामं गच्छतु भवान्। गच्छ त्वम्। तातङि ङित्वं सङ्क्रमकृत् स्यादन्त्यविधिश्चेत् तच्च तथा न। हेरधिकारे हेरधिकारो लोपविधौ तु ज्ञापकम् आह। तातङो ङित्त्वसामर्थ्यान् न अयम् अन्त्यविधिः स्मृतः। न तद्वदनङादीनां तेन ते ऽन्त्यविकारजाः।
लघु-सिद्धान्त-कौमुदी
तुह्योस्तातङ्ङाशिष्यन्यतरस्याम् ४१४, ७।१।३५

आशिषि तुह्योस्तातङ् वा। परत्वात्सर्वादेशः। भवतात्॥
न्यासः
तुह्रोस्तातङाशिष्यन्यतरस्याम्?। , ७।१।३५

"जोवताद्भवान्()" इति। "आशिषि लिङ्लोटौ" (३।३।१७३) इति लोट्? तिप्(), शप्? "एरुः" ३।४।८६ इत्युत्वम्(), तस्य तुशब्दस्य तातङ्()। जीवतात्त्वम्()" इति। सिप्(), "सेह्र्रपिच्च" ३।४।८७ इति हिरादेशः; तस्य तातङ्। "जीव त्वम्()" इति। "अतो हेः" ६।४।१०५ इति हेर्लुक्()। अथ जीवतात्? त्वमित्यत्र स्थानिवद्भावेन तातङो हिग्रहणेन ग्रहणाल्लुक्कस्मान्न भवति? "हुझल्भ्यो हेर्घिः ६।४।१०१ इत्यतो हेरित्यनुवत्र्तमाने पुनः "अतो हेः" ६।४।१०५ इति ग्रहणात्()। तस्य ह्रेतत्? प्रयोजनम्()--हिरूपावस्थितस्यैव हेर्लुग्यथा स्यात्()। स्थानिवद्भावेन यच्छब्दान्तरं हिग्रहणेन गृह्रते तस्य मा भूत्()। अथ "ङिच्च" (१।१।५३) इति वचनात्? तातङ्यमन्त्यस्य कस्मान्न भवति? इत्याह--"ङित्करणम्()" इत्यादि। गणप्रतिषेधार्थम्()--ब्राऊयात्? भवानित्यत्र। वृद्धिप्रतिषेधार्थम्()--मृष्टादित्यत्र। इतिकरणो हेतौ। यस्माद्गुणवृद्धिप्रतिषेधार्थं ङित्करणं तस्मात्सर्वादेशस्तातङ् भवति। यदि हि तस्यान्यत्? प्रयोजनं न स्यात्(), स्यादेवान्त्यस्य तातङ्()। अस्ति च तस्यान्यत्? प्रयोजनं गुणवृद्धिप्रतषेधः। तस्मिन्? सति किं "ङिच्च" १।१।५२ इत्यन्त्यस्य भवतु, अथ "अनेकाल्शित्सर्वस्य" (१।१।५५) इति सर्वस्य वा? तत्र परत्वात्? सर्वादेशेनैव युक्तं भवितुम्()। तस्मात्? "अनेकाल्शित्सर्वस्य" (१।१।५५) इति सर्वस्य वा? तत्र परत्वात्? सर्दादेशेनैव युक्तं भवितुम्()। तस्मात्? "अनेकाल्शित्सर्वस्य" १।१।५४ इति सर्वस्यैव स्यादिति सर्वादेशो भवति। ननु च तुस्थानिकस्य तातङः स्थानिवदभावेन पित्त्वं प्राप्नोति; ततश्च हलि पिति सार्वधातुके यता ब्रावीत्वित्यत्रेङ् भवति, तथा ब्राऊताद्भवानित्यत्राणीटा भवितव्यम्()?--एतच्चोद्यमपाकत्र्तमाह--"ङित्त्वाच्च" इत्यादि। अस्येति तातङः। किं कारणं निवर्तते? इत्याह--"ङिच्च" इत्यादि। चकारो हेतौ। तुस्थानिकस्य तातङो नाप्राप्ते पित्त्वे ङित्त्वमारभ्यत इति ङित्त्वेन हि पित्त्वं बाध्यते। तथासौ ङिद्भवत यदि स्थानिवद्भावेन प्राप्तं पित्त्वं निवत्र्तते। "तेन" इत्यादि। यत एवं पित्त्वं निवत्र्तते तेन पित्त्वाश्रय ईण्न भवति। ग्रामं गच्छतु भवान्()। त्वं गच्छेति। "लोट्? च" ३।३।६२ इति बिध्यादौ लोट्()॥
बाल-मनोरमा
तुह्रोस्तातङ्ङाशिष्यन्यतरस्याम् ४६, ७।१।३५

अथाऽ‌ऽशिषि लोटो विशेषमाह---तुह्रोस्तातङ्। तुश्च हिश्च तुही, तयोरिति विग्रहः। तातङि ङकार इत्। अकार उच्चारणार्थः। तादित्यादेशः शिष्यते। ननु किमस्य अनेकाल्त्वात्सर्वादेशता,उत ङित्त्वादन्तादेशतेत्यत आह--अनेकाल्त्वात्सर्वादेश इति। ननु "ङिच्चे"त्यस्य सर्वादेशापवादतयाऽनङादेरिव तातङोऽप्यन्त्यादेशत्वमेवोचतमित्याशङ्कते--यद्यपीति। परिहरति--तथापीति। परेण बाध्यत इति। तातङादेशे "ङिच्चे"त्ययं विधिः "अनेकाल्शित्सर्वस्ये"ति परेण बाध्यत इत्यर्थः। ननु "परनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीय" इति परापेक्षया अपवादस्य प्रबलत्वान्ङिच्चेत्यन्तादेशत्वमेव तातङि युक्तमित्यत आह--मन्थरं प्रवृत्त इति। "ङिच्चेति विधि"रिति शेषः। तातङ्विषये ङिच्चेति विधिर्मन्थरं प्रवृत्त इति हेतोः परेण सर्वादेशविधिना बाध्यत इत्यर्थः। कुतो मन्दप्रवृत्तिकत्वमित्यत आह-- अनन्यार्थेत्यादिना। अन्तादेशत्वादन्योऽर्थो यस्य ङित्त्वस्य न विद्यते तदनन्यार्थम्। तथाविधं ङित्त्वं येषां तेषु अनङादिषु ङिच्चेति विधिश्चरितार्थः-- लब्धप्रयोजनक-इति कृत्वा मन्दं प्रवृत्त इत्यर्थः। तातङो ङित्त्वं तु अन्तादेशत्वापेक्षयाऽनन्यार्थं नेत्याह-- सम्भवत्प्रयोजनङकारे इति। सम्भवन्ति प्रयोजनानि अन्तानि यस्य स सम्भवत्प्रयोजनः, तथाविधो ङकारो यस्य तथाविधे तातङीत्यर्थ-। कथं सम्भवत्प्रयोजनकत्वमित्यत आह--गुणवृद्धिप्रतिषेध-सम्प्रसारणाद्यर्थतयेति। द्विष्टादित्यादौ लघूपधादिगुणनिषेधः। स्तुतात्,युतादित्यादा"वुतो वृद्धिर्लुक हली"ति विहिताया वृद्धेर्निषेधः। "वश कान्तौ" उष्टादित्यत्र "ग्रहिज्यावयी"ति सम्प्रसारणम्। आदिना ब्राऊतादित्यत्र "ब्राउव ई"डितीटोऽभावस्य सङ्ग्रहः। ननु तातङ्विषये ङिच्चेति विधिर्मन्दं प्रवर्तताम्, अथापि "परनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीय" इति न्यायेन परस्यापि सर्वादेशविधेरपवादभूतेन ङिच्चेत्यनेन बाध एवोचित इत्यत आह-- इहेति। इह = तातङ्विषये अनेकाल्शित्सर्वस्येति सामान्यशास्त्रस्य, ङिच्चेति विशेषशास्त्रस्य च समबलत्वात्सामान्यशास्त्रं विशेषशास्त्रेम न बाध्यत इत्यर्थः। अयं भावः-- अपवादशास्त्रस्य परनित्यान्तरङ्गापेक्षया प्राबल्ये निरवकाशत्वमेव बीजम्। प्रकृते च ङिच्चेति विधिरनङादिङित्तवमन्तादेशत्वैकप्रयोजनकं प्रयोजनान्तरविरहेण निरवकाशत्वाज्झटिति परिगृह्णन्तकृतार्थतामनुभवन्, तातङो ङित्त्वं प्रयोजनान्तरसत्त्वेन सावकाशत्वादुपेक्षत इति। तदुक्तं भाष्ये-- "ङित्त्वस्य सावकाशत्वाद्विप्रतिषेधात्तातङ्सर्वादेश" इति। अधिकास्तु विस्तरभिया विरम्यते। भवतादिति। आशिषि लोटस्तिपि शपि गुणे अवादेशे उकारे तोस्तातङ्सर्वादेशः। ङकार इत्। द्वितीयतकारादकार उच्चारणार्थः।

तत्त्व-बोधिनी
तुह्रोस्तातङ्ङाशिष्यन्यतरस्याम् ३६, ७।१।३५

यद्यपि "तिह्रोस्तात"ङिति वक्तुं शक्यं, तथापि लाघवाऽभावादतिप्रसङ्गवारणाय हिशब्दसाहर्याश्रयणे लोट् इत्यनुवर्तमाने वा गौरवाच्च तुह्रोरित्युक्तम्।