अमः प्रति मिबादेशो गृह्यते। तस्य छन्दसि विषये मशादेशो भवति। वधीं वृत्रम्। त्रमीं वृक्षस्य शाखाम्। लुङि बहुलं छन्दस्यमाङ्योगे ऽपि
६।४।७५ इत्यडागमाभावः। शित्करणम् सर्वादेशार्थम्। मकारस्य अपि हि मकारवचनम् अनुस्वारनिवृत्त्यर्थं स्यात्।
"अमिति मिबादेशो गृह्रते" इति द्वितीयैकवचनाशङ्कां निराकारोति। द्वितीयैकवचनस्याग्रहणम्(); छन्दसि यथादृष्टानुविधानात्()। अपिशब्दानुवृत्तेर्वा, तदनुवृत्तौ ह्रेषं सम्बन्धः क्रियते--अमो मश्च भवति,
अपिशब्दात्? क्वचिच्छ्रवणमपीति। "वधीम्()" इति। हन्तेर्लुङ, "चलेः सिच्()"
३।१।४४ सिप्(), तस्य "तस्थस्थ"
३।४।१०१ इत्यादिनाऽम्(), तस्य मशादेशः--अकार उच्चारणार्थः, "लुङि च"
२।४।४३ इति हन्तेर्वधादेशा, "आर्धधातुकस्य" (७।२।
३५) इत्यादिनेट्? "अस्तिसिचोऽपृक्ते" (७।३।
९६) इतीट्? "इट ईटि
८।२।२८ इति सिचो लोपः, सवर्णदीर्घतद्वलम्। "क्रमीम्()" इति। "क्रमु पादविक्षेपे" (धा।पा।४७३) सर्वं पूर्ववत्()। अयमत्र विशेषः--"स्नुक्रमोरनात्मनेपदनिमित्ते"
७।२।३६ इतीट्()। अवधिवम्(), अक्रमिषमिति प्राप्ते।
"शित्ककरणं सर्वादेशार्थम्()" इति।
असति तस्मिन्? "अलोऽन्त्यस्य"
१।१।५१ स्यादिति भावः।
ननु च मकारस्य मकारवचने प्रयोजनं नास्तीत्यन्तरेणापि शकारं सर्वादेशो भविष्यति? इत्याह--"मकारस्य" इत्यादि। अस्ति हि मकारविधाने प्रयोजनम्()।
किं तत्()? "मोऽनुस्वारः"
८।३।२३ प्राप्नोति; स मा भूदिति।
सत्येतस्मिन्? प्रयोजने यदि शकारो न क्रियेत, तदाऽन्त्यस्यैव स्यात्(), न स्यात्(), न सर्वस्य।
तस्मात्? सर्वादेशार्थः शकारः कत्र्तव्यः॥