पूर्वम्: ७।१।७५
अनन्तरम्: ७।१।७७
 
सूत्रम्
छन्दस्यपि दृश्यते॥ ७।१।७६
काशिका-वृत्तिः
छन्दस्यपि दृश्यते ७।१।७६

अस्थिदधिसक्थ्यक्ष्णाम् अनङ् छन्दस्यपि दृश्यते। यत्र विहितस् ततो ऽन्यत्र अपि दृश्यते। अचि इत्युक्तम्, अनजादौ ऐ दृश्यते। इन्द्रो दधीचो अस्थभिः। भद्रं पश्येमाक्षभिः। तृतीयादिषु इत्युक्तम्, अतृतीयादिषु अपि दृश्यते। अस्थान्युत्कृत्य जुहोति। विभक्तौ इत्युक्त, अविभक्तावपि दृश्यते। अक्षण्वता लाङ्गलेन। अस्थन्वन्तं यदनस्था बिभर्ति।
न्यासः
छन्दस्यपि दृश्यते। , ७।१।७६

"यतो विहितः" इत्यादिनाऽपिशब्दस्य सर्वोपाषिण्यभिचारार्थतां दर्शयति। "अस्थभिः" इति। अनङि कृते नलोपः। "अस्थान्युत्कृत्य" इति। शस्यनङ्। "अक्षण्वता" इति। अत्रापि मतुपि "अनो नुट्()" ८।२।१६ इति नुल्यम्()। द्वितीयान्तमेतत्()। "यदनस्थः" इति। अस्थि यसय नास्तीति सावनङ, "सर्वनामस्थाने च" ६।४।८ इति दीर्घः॥