पूर्वम्: ८।२।१५
अनन्तरम्: ८।२।१७
 
सूत्रम्
अनो नुट्॥ ८।२।१६
काशिका-वृत्तिः
अनो नुट् ८।२।१६

छन्दसि इति वर्तते। अनन्तादुत्तरस्य मतोः नुडागमो भवति छन्दसि विषये। अक्षण्वन्तः कर्णवन्तः सखायः। अस्थन्वन्तं यदनस्था बिभर्ति। अक्षण्वता लाङ्गलेन। शीर्षण्वती। मूर्धन्वती। नुटः असिद्धत्वात् तस्य च वत्वं न भवति, ततः परस्य च भवति।
न्यासः
अनो नुट्?। , ८।२।१६

"अक्षण्यन्तः" इति। "अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः" ७।१।७५, " छन्दस्यापि दृश्यते" ७।१।७६ इत्याङ्(); नुट्(), अनङी नकारस्य लोपः नुमो णत्वम्()। "अस्थन्वन्तम्()" इति। अस्थिशब्दस्य णत्ववर्ज पूर्ववदनङादि कत्र्तव्यम्()। "शीर्षण्वती" इति। "शीर्षंश्छन्दसि" ६।१।५९ निपातितम्()। ननु च नुटोऽनन्तरत्वात्? तस्यैव वत्वेन भवितुं युक्तम्(), न तु तद्व्यवहितस्य मकारस्य, तत्कथमिह नुटो वत्वं न भवति, ततस्तु परस्य न भवति? इत्याह--"नुटोऽसिद्धत्वात्()" इत्यादि। अथायं नुट्? परत्वादपवाद एव कस्मान्न भवति? भिन्नजातीयत्वात्()। समानजातीयकार्यपन्नो हि विशेषः सामान्यस्य बाधको भवति, इह कार्यभेदोऽस्ति; वत्वस्यादेशत्वान्नुटस्थ्वागमत्वादिति नास्ति वाध्यबाधकभावः, नुटः परादिकरणं णत्वं यथा स्यादित्येवमर्थम्(); अन्यथा हि "पदान्तस्य" ८।४।३६ इति प्रतिषेधः स्यात्()॥