पूर्वम्: ७।१।८७
अनन्तरम्: ७।१।८९
 
सूत्रम्
भस्य {टे}र्लोपः॥ ७।१।८८
काशिका-वृत्तिः
भस्य टेर् लोपः ७।१।८८

पथ्यादीनां भसंज्ञकानां टेः लोपो भवति। पथः। पथा। पथे। मथः। मथा। मथे। ऋभुक्षः। ऋभुक्षा। ऋभुक्षे। सर्वनामस्थाने इत्यनुवर्तमानम् अपि विरोधादिह न सम्बध्यते।
लघु-सिद्धान्त-कौमुदी
भस्य टेर्लोपः २९८, ७।१।८८

भस्य पथ्यादेष्टेर्लोपः। पथः। पथा। पथिभ्याम्॥ एवं मथिन्, ऋभुक्षिन्॥
न्यासः
भस्य टेर्लोपः। , ७।१।८८

"सर्वनामस्थाने" इत्यादि। "यचि भम्()" १।४।१८ प्रत्यत्र "स्वादिष्वसर्वनामस्थाने" १।४।१७ इत्यतः "असर्वनामस्थाने" इत्यनुवत्र्तमाने भसंज्ञा विहिता, तत्र यदि सर्वनामस्थाने परतः पथ्यादीनां टिलोपः स्यात्(), तदा भसंज्ञकास्ते न स्युः, अथ भसंज्ञकास्ते स्युस्तदा सर्वनामसथानं परं तेब्यो न स्यादिति भसंज्ञकानां सर्वनामस्थानस्य च सहानवस्थानलक्षणो विरोधः। तस्माद्यद्यप्युत्तरार्थं सर्वनामस्थानग्रहणमनुवत्र्तते, तथापीह नाभिसम्बध्यते॥
बाल-मनोरमा
भस्य टेर्लोपः , ७।१।८८

एवं पन्थानः। पन्थानम् पन्थानौ। शसादावचि विशेषमाह--भस्य टेर्लोपः। पथ्यादेरिति। पथिमत्यृभुक्षामित्यनुवर्तत इति भावः। पथः पथेति। पथिन् अस् पथिन् आ इति स्थिते इनो लोपे रूपद्वयमिति भावः। पथिभ्यामिति। नलोपे रूपम्। इत्यादीति। पथिभिः। पथे। पथिभ्यः। पथः पथोः पथाम्। पथि, पथोः पथिषु। एवं मन्था ऋभुक्षा इति। मन्थदण्डवाची मथिन्शब्दः। तस्य आत्त्वम्, अत्त्वं , न्थादेशः, टिलोपश्च। मन्थाः मन्थानौ मन्थानः। मन्थानम् मन्थानौ मथः। मथा मथिभ्याम्। मथे। मथः मथोः मेथाम्। मथि। मथिषु। ऋभुक्षिन्शब्दस्तु इन्द्रवाची। तत्र "थो न्थः" इतिवर्जमात्त्वादि भवति। षात्परत्वाण्णत्वं च। ऋभुक्षाः ऋभुक्षाणौ इत्यादि। यत्तु अत्र पन्थानमात्मन इच्छति पथीयति। "सुप आत्मनः क्यच्", "नः क्ये" इति पदत्वान्नलोपः "आकृत्सार्वधातुकयोः" इति दीर्घः। "सनाद्यन्ताः" इति धातुत्वम्। ततः क्विप्। अल्लोपयलोपौ। एकदेशविकृतस्यानन्यत्वात् "पथिमथी"त्यात्त्वं, "थो न्थः"। ततः संयोगपूर्वत्वान्न यण्। किन्त्वियङेव। पन्थियौ। "भस्य टेक्लोपः" पथ इत्यादि प्रौढमनोरमातत्त्वबोधिन्यादावुक्तम्। तदेतदनुनासिकविधौ सति प्रतिपत्तिलाघवायाऽनुनासिकस्यैव उच्चारणे कार्ये तदनुच्चारणाच्छुद्धस्यैव विधानमिति भाष्यविरोधादुपेक्ष्यम्। पथीयते क्विपि हि ईकारस्य शुद्धाकारार्थं अनुनासिकानुच्चारणस्यावश्यकत्वे तदसङ्गति स्पष्टैव। तस्मात्पथीयतेः क्वपोऽनभिधानमेवोचितमिति शब्देन्दुशेखरे स्पष्टम्।प्रसङ्गादाह--स्त्रियामिति। सु=शोभनः पन्था अस्या इति बहुव्रीहिः। "ऋन्नेभ्यः" इति ङीप्। "भस्य टेर्लोपः" इति इनो लोपः। सुपथीति रूपम्। ऋक्पूः"इत्यप्तु न, "न पूजनादिति निषेधात्। न चैवमपि "न पूजनात्" इति निषेधस्य षचः प्रागेव प्रवृत्तेर्वक्ष्यमाणत्वात् "इनः स्त्रिया"मिति कब्दुर्वार एवेति वाच्यम्, "युवोरनाकौ" इत्यत्र सुपथीति भाष्यप्रयोगेण तस्या अनित्यत्वज्ञापनात्। नच लिङ्गविशिष्टपरिभाषया "पथिमथी"त्यात्त्वं थो न्थश्च कुतो नेति वाच्यं, विभक्तौ लिङ्गविशिष्टाऽग्रहणात्। सुमथी इति। सु=शोभनो मन्था यस्या इति विग्रहः। ङीबादि पूर्ववत्। अनृभुक्षी सेनेति। अविद्यमानः ऋभुक्षा यस्या इति विग्रहः। "नञोऽस्त्यर्थाना"मिति समासः। ऋभुक्षाः=स्वामी। अथ सु=शोभनः पन्था अस्य वनस्येति बहुव्रीहौ सुपथिन्शब्दान्नपुंसकात् "स्वमोर्नपुंसकात्" इति सोर्लुकि प्रत्ययलक्षणमाश्रित्य सुप्परत्वसत्त्वात् "पथिमथी"त्यात्त्वमाशङ्क्याह--आत्त्वं नपुंसके इति। सम्बुद्धाविति। यद्यपि भाष्ये नपुंसकानामित्येव पठितं तथापि हे चर्मन् हे चर्मेति भाष्ये सम्बुद्धावेव उदाह्मतत्वात्तन्मात्रविषयत्वमस्येति भावः। सम्बुद्धेर्लुका लुप्त्वात्संबुद्धिपरत्वाऽभावात् "न ङिसम्बुद्ध्योः" इति निषेधाऽप्रवृत्तेर्नित्यं नलोपप्राप्तौ विकल्पार्थोऽयमारम्भः। ननु नलोपपक्षे "ह्यस्वस्य गुणः" इति सम्बुद्धौ परतो गुणे कर्तव्ये न "न लुमते"ति निषेधस्याऽनित्यत्वाद्धे वारे हे वारि इतिवद्गुणविकल्पः स्यादित्यत आह--नलोपः सुबिति। द्विवचने इति। सुपथिन्शब्दादौङः शीभावे सति असर्वनामस्थानत्वेन भत्वात् "भस्य टेर्लोपः" इति इनो लोपे सुपथीति रूपमित्यर्थः। शाविति। सुपथिन्शब्दाज्जश्शसोः शिभावे सति तस्य सर्वनामस्थानत्वात् "इतोऽत्" इत्यत्त्वे, "थो न्थः" इति थस्य न्थादेशे नान्तत्वाद्दीर्घे सुपन्थानि इति रूपमित्यर्थः।

तत्त्व-बोधिनी
भस्य टेर्लोपः ३२९, ७।१।८८

पथिमथोरिति। प्रसङ्गादाह--स्त्रियामिति। नान्तलक्षण इति। "न पूजना"दिति निषेधात् "ऋक्पूरब्धू"रित्यप्रत्ययो नेति भावः। सुपथीति। "इनः स्त्रिया"--मिति कप्तु न कृतः, समासान्तविधेरमनित्यत्वात्। "युवोरनाका"विति सूत्रे "सुपथी"ति भाष्याच्च। "न पूजनां"दिति निषेधस्य तु नायं विषयः""षचः प्राचीनेष्वेव सः"इति वक्ष्यमाणत्वात्। "पथिमथी त्यात्वं थो न्थश्च लिङ्गविशिष्टपरिभाषया प्राप्तं विभक्तौ लिङ्गविशिष्टाऽग्रहणान्न भवति। अत्रेदं बोध्यम्--पन्थानमात्मन इच्छति पथीयति। ततः क्विप्। अल्लोपयलोपौ। एकदेशविकृतस्यानन्यत्वात् "पथिमथी"त्यात्वम्। "थोः न्थः"। पन्थाः। "इतोऽत्सर्वनामस्थाने"इत्यत्वं न भवति। "इत"इति तपरकरणात्। "एरनेकाचः"इति यणं बाधित्वा परत्वान्नित्यत्वाच्च--"थो न्थः"। संयोगपूर्वकत्वान्न यण्। पन्थियौ। पन्थियः। पन्थियम्। पन्थियौ। "भस्य टेक्लोपः"। पथः। पथा। पथीभ्यम्। पथीभिरित्यादि। एवं मथीयतेः क्विपि तु--मन्थाःष मन्थियौ। मन्थियः। ऋभुक्षाः। ऋभुक्षियौ। ऋभुक्षियः। इत्यादि। एतेन "इतोऽत्सर्वनामस्थाने"इत्यत्रस्थानिन्यदेशे च तपरकरणं मुखसुखार्थमिति हरदत्तग्रन्थः प्रयुक्तः। आदेशे तपरकरणस्यानावश्यकत्वेऽपि स्थान#इनि तु "पन्थियौ"इत्यादिसिद्धये तस्यावश्यकत्वात्। ननु नलोपस्याऽसिद्धात्वात्। "पथिमथ्यृभुक्षाम्---"इति नस्यात्वे पन्थ्याः, मन्थ्याः, ऋभुक्ष्या इथ्येव भवितव्यम्, न तु "पन्था"इत्यादिति चेत्। अत्राहुः--नलोपस्यान्तर्वर्ती सुब्विमित्तम्। आत्वस्य तु बहिर्वत्र्ती सुप्। प्रत्यासत्त्या हि अत्र एक एव सुब्निमित्तभूतस्तत्रैव "नलोपः सुप्स्वरे"ति नलोपस्यासिद्धत्वं नान्यचत्रेति नात्र नकारस्यात्वं, किं त्वीकारस्येति।