पूर्वम्: ७।१।९३
अनन्तरम्: ७।१।९५
 
सूत्रम्
ऋदुशनस्पुरुदंशोऽनेहसां च॥ ७।१।९४
काशिका-वृत्तिः
ऋदुशनस्पुरुदंसो ऽनेहसां च ७।१।९४

ऋकारान्तानाम् अङ्गानाम् उशनस् पुरुदंससनेहसित्येतेषाम् च असम्बुद्धौ सौ परतः अनङादेशो भवति। कर्ता। हर्ता। माता। पिता। भ्राता। उशना। उरुदंसा। अनेहा। असम्बुद्धौ इत्येव, हे कर्तः। हे मातः। हे पितः। हे पुरुदंसः। हे अनेहः। हे उशनः। उशनसः सम्बुद्धौ अपि पक्षे अनङिष्यते। हे उशनन्। न ङिसम्बुद्ध्योः ८।२।८ इति नलोपप्रतिषेधो ऽपि पक्षे इष्यते। हे उशन। तथा चोक्तम् सम्बोधने तूशनस्त्रिरूपं सान्तं तथा नान्तमथाप्यदन्तम्। माध्यन्दिनिर्वष्टि गुणं त्विगन्ते नपुंसके व्याघ्रपदाम् वरिष्ठः। इति। तपरकरणमसन्देहार्थम्।
लघु-सिद्धान्त-कौमुदी
ऋदुशनस्पुरुदंसोऽनेहसां च २०६, ७।१।९४

ऋदन्तानाम् उशनसादीनाम् च अनङ् स्यात् असंबुद्धौ सौ॥
न्यासः
ऋदुशनस्पुरुदंसोऽनेहसां च। , ७।१।९४

ऋकारान्तस्य "ऋतो ङिसर्वनामस्थानयोः" ७।३।११० इति गुणे प्राप्ते। इतरेषामपि हल्ङ्यादिलोपे ६।१।६६ कृते रुत्वविसर्जनीयसान्तदीर्घेषु प्राप्तेषु। "उशनसः सम्बुद्धावपि पक्ष इष्यते" इति। तत्कथम्()? चकारोऽत्र क्रियते, स चानुक्तसमुच्चयार्थः। तेन तम्बुद्धावप्युशनसोऽनङ्? भविष्यति। यद्येवम्(), नित्यं स्यात्()? नैतत्(); "णलुत्तमो वा" (७।१।९१) इत्यधिकारात्? पक्षे भविष्यति। व्यवस्थित विभाषाविज्ञानाच्चान्येषां नित्यम्()। "नलोपप्रतिषेधोऽपि पक्ष इष्यते" इति। कथमेतल्लभ्यते? तत्र हि स्वरितो वाऽनुदात्ते पदादौ" ८।२।६ इत्यतौ वेत्यनुवत्र्तते, तेनैवं विज्ञायत--न ङिसम्बुद्ध्योर्नलोपप्रतिषेधो वा भवतीति। व्यवस्थितविभाषादिज्ञानाच्चोशनसः सम्बुद्धिनकारस्य लोपो वा भविष्यति। अन्येषां तु नित्यमेव लोपो न भविष्यतीति। "तथा चोक्तम्()" इत्यादिनाऽनन्तरोक्तमर्थमागमवचनन द्रढयति। "सान्तम्()" इति। यदाऽनङ न क्रियते। "नान्तम्()" इति। न तु नलोपः। "अदन्तम्()" इति। यदा नलोपः क्रियते। "तपरकरणमसन्देहार्थम्()" इति। असति हि तस्मिन्नुशनसि परतो यणादेशे कृते सन्देहः स्यात्()--किमृकारन्तस्य ग्रहणम्()? उत्त रेफान्तस्येति()॥
बाल-मनोरमा
ऋदुशनस्पुरुदंसोऽनेहसां च २७४, ७।१।९४

ऋदुशनस्। "सख्युरसंबुद्धौ" इत्यतोऽसंबुद्धाविति "अनङ सौ" इत्यतोऽनङिति चानुवर्तते, "अङ्गस्ये"त्यधिकृतमृदादिभिर्विशेष्यते। तदाह--ऋदन्तानामिति। उशनसादिष्वपि तदन्तविधिर्बोध्यः। अनङि ङकार इत्। नकारादकार उच्चारणार्थः। "ङिच्चे"त्यन्तादेशः। क्रोष्टन् स् इति स्थिते।