पूर्वम्: ७।१।१०३
अनन्तरम्: ७।२।२
 
प्रथमावृत्तिः

सूत्रम्॥ सिचि वृद्धिः परस्मैपदेषु॥ ७।२।१

पदच्छेदः॥ सिचि ७।१ वृद्धिः १।१ परस्मैपदेषु ७।३ अङ्गस्य ?

अर्थः॥

परस्मैपदेषु परेषु सिचि परतः इगन्तस्य अङ्गस्य वृद्धिः भवति

उदाहरणम्॥

अचैषीत्, अनैषीत्, अलावीत्, अपावीत्, अकार्षीत्, अहार्षीत्
काशिका-वृत्तिः
सिचि वृद्धिः परस्मैपदेषु ७।२।१

परस्मैपदपरे सिचि परतः इगन्तस्य अङ्गस्य वृद्धिर् भवति। अचैषीत्। अनैषीत्। अलावीत्। अपावीत्। अकार्षीत्। अहार्षीत्। अन्तरङ्गम् अपि गुणम् एषां वृद्धिर्वचनाद् बाधते। न्यनुवीत्, न्यधुवीतित्यत्र कुटादित्वात् ङित्त्वे सति प्रतिषिद्धायां वृद्धौ उवङादेशः क्रियते। परस्मैपदेषु इति किम्? अच्योष्ट। अप्लोष्ट।
लघु-सिद्धान्त-कौमुदी
सिचि वृद्धिः परस्मैपदेषु ४८६, ७।२।१

इगन्ताङ्गस्य वृद्धिः स्यात् परस्मैपदे सिचि। अक्षैषीत्। अक्षेष्यत्॥ तप सन्तापे॥ १४॥ तपति। तताप। तेपतुः। तेपुः। तेपिथ, ततप्थ। तेपिव। तेपिम। तप्ता। तप्स्यति। तपतु। अतपत्। तपेत्। तप्यात्। अताप्सीत्। अताप्ताम्। अतप्स्यत्॥ क्रमु पादविक्षेपे॥ १५॥
न्यासः
सिचि वृद्धिः परस्मैपदेषु। , ७।२।१

"सार्वधातुकार्धधातुकयोः" ७।३।८४ इति गुणे प्राप्ते वचनमिदमारभ्यते। सिचीति, परस्मैपदेष्विति च द्वे अप्येति परसप्तम्यौ; तत्र सिचोऽङ्गापेक्षं परत्वं, परस्मैपदानां तु सिजपेक्षम्()। "परस्मैपदपरे" इति। परस्मैपदं परं यस्मात्? स तथोक्तः। "इगन्तस्य" इति। "इको गुणबृद्धी" १।१।३ इत्यस्योपस्थाने सतीकाऽङ्गं विशिष्यते, विशेषणेन च तदन्तविधिर्भवतीत्याह--"इगन्तस्याङ्गस्य वृद्धिर्भवति" इति। "अचैषीत्(), अनैषीत्()" इति। "चिञ्? चयने" (धा।पा।१२५१), "णोञ्? प्रापणे" (धा।पा।९१), भूते लुङ्, "च्लेः सिच्()" ३।१।४४, "एकाचः" ७।२।१० इत्यादिनेट्प्रतिषेधः, अडागमः, "नित्यं ङितः" ३।४।९९ इत्यनुवत्र्तमाने "इतश्च" ३।४।१०० इतीकारलोपः, "अस्तिसिचोऽपुक्ते" ७।३।९६ इतीट्(), "इष्कोः" ८।३।५७ इत्यनुवत्र्तमाने "आदेशप्रत्यययोः" ८।३।५९ इति षत्वम्()। "अलावीत्? अपावीत्()" इति। "पूर्ववल्लुङ, "आर्धधातुकस्येङ्वलादेः" (७।२।३५) इतीट्? पूर्ववदीट्(), "इट ईटि" ८।२।२८ इति सिचो लोपः। "अकार्षात्()" इति। उदाहरणं सुबोधम्()। ननु चात्रान्तरङ्गत्वाद्गुणेन भवितव्यम्(), अन्तरङ्गत्वं पुनस्तस्यार्धधातुकापेक्षात्वात्(); वृद्धेस्त्वाद्गुणविशेषं परस्मैपदपरं सिचमपेक्ष्य बहिरङ्गत्वम्()? अत आह--"अन्तरङ्गमपि" इत्यादि। यद्यन्तरङ्गत्वाद्णः स्यात्(), तदैतद्वचनमनर्थकं स्यात्()। तस्माद्वचनसामथ्र्याद्वहिरङ्गापि वृद्धिर्गुणं बाधते। यद्येवम्(), तर्हि यथा वचन सामथ्र्याद्वृद्धिरन्तरङ्गमपि गुणं बाधते, तथोवङादेशमपि बाधेत ततश्च न्यनुवीत्(), न्यधुवीदिति न सिध्येत्()? इत्यत आह--"व्यनुवीन्न्यधुवीत्()" इत्यादि। यत्र हि वृद्धेः प्रतिषेधो नास्ति, तत्र वचनसामथ्र्याद्विध्यन्तरं बाधित्वाऽसौ प्रवत्र्तते। इह तु ङित्त्वे सति "क्ङिति च" १।१।५ इति वृद्धिः प्रतिषिध्यते, प्रतिषिद्धा च सतो नोत्सहत उपङादेशं बाधितुम्()। तेन तस्यां प्रतिषिद्धायां "अचि श्नुधातु" ६।४।७७ इत्यादिनोवङादेशः क्रियते। ङित्त्वं पुनरत्र "णू स्तवने" (धा।पा।१३९७), "धू विधूनने" (धा।पा।१३९८) इत्येतयोः कुटादिषु पाठाद्गाङकुटादिसूत्रेण १।२।१ यथा सामथ्र्याद्वृद्ध्या गुणो बाध्यते, तथा प्रतिषेधोऽपि बाध्येत एव? नैतदस्ति; गुणे हि नाप्राप्ते वृद्धिरारभ्यते, प्रतिषेधे तु प्राप्ते चाप्राप्ते च। तत्र येन नाप्राप्ति नान्येन (व्या।प।४९) गुणस्यैव बाधा युक्ता, न प्रतिषेधस्य। "अच्योष्ट, अप्लोष्ट" इति। "च्युङ्? छ्युङ्? ज्युङ्? (न स्तः--धातुपाठे) इयुङ्? प्रुङ्? प्लुङ्? गतौ" (धा।पा।९५५,९५६,९५७)
बाल-मनोरमा
सिचि वृद्धिः परस्मपैपदेषु १४०, ७।२।१

अथ लुङि सिचि वीभावे "सार्वधातुकाद्र्धधातुकयो"रिति गुणे प्राप्ते-- सिचि वृद्धिः। इगन्तस्येति। वृद्धिश्रुत्या इक इत्युपस्थितमङ्गस्येत्यधिकृतस्य विशेषणं, तदन्तविधिरिति भावः। एवं च अकोषीत्यादौ व्यञ्जनस्य न वृद्धिः। अवैषीदिति। लुङिस्तिप्। इकारलोपः। सिचि वीभावः। "एकाच" इति इण्निषेधः। वृद्धिः। अडागमः। षत्वम्। आजीदिति। सिज्लोपः। "वदव्रजे"ति हलन्तलक्षणायां वृद्धौ "नेटी"ति निषिद्धायामाडागमे "आटश्चे"ति वृद्धिः। लृङि अवेष्यत् आजिष्यत्। तेज पालन इत्यादि। स्पष्टम्। एजृ कम्पन इति। दीप्तौ त्वात्मनेपदी गतः। टु ओ स्फूर्जेति। "आदिर्ञिटुडव" इति टुरित्, उपदेशेऽनुनासिकत्वादोकार आकारश्च इत्। "ट्वितोऽथु"जित्थथुच्, "आदितश्चे"ति निष्ठानत्वम्, "ओदितश्चे"ति निष्ठायामिण्निषेधश्च। तत्फलानि। "उपधायां चे"ति दीर्घस्याऽनित्यत्वज्ञापनार्थमिह दीर्घ ऊकारः पठितः। तेन हुर्छतीत्यादौ न दीर्घ इत्याहुः। स्फूर्जतीति। लिटि--पुस्फूर्ज, अस्फूर्जीत्। क्षि क्षय इति। क्षयो--नाशः। अन्तर्भावितण्यर्थ इति। नाशनार्थक इत्यर्थः। अजन्तेष्वेवास्य पाठो युक्तः। क्षयतीति। नश्यतीत्यर्थः,नाशयतीति वा। शपि गुणेऽयादेशः। चिक्षायेति। णलि वृद्धिः। आयादेशः। चिक्षियतुरिति। "असंयोगा"दिति कित्त्वान् गुणः। इयङ्। चिक्षयिथ-- चिक्षेथेति। पित्त्वेन कित्त्वाऽभावाद्गुणः। अजन्तत्वात्तासौ नित्याऽनिट्त्वाच्च भारद्वाजनियमात्थलि वेट्। इट्पक्षेऽयादेशः। चिक्षियथुः। चिक्षिय। चिक्षाय चिक्षय। वस्मसोस्तु क्रादिनियमान्नित्मिट्। तदाह---चिक्षियिव चिक्षियिमेति। क्षेता। क्षेष्यति। क्षयतु। अक्षयत्। क्षयेत्।

तत्त्व-बोधिनी
सिचि वृद्धिः परस्मैपदेषु ११५, ७।२।१

"इको गुणवृद्धी" इति परिभाषोपस्थानादाह-- इगन्तेति। परस्मैपदेष्विति किम्?। अधविष्ट। अधोष्ट। सिचि किम्?। एति। बिभर्ति। गुणं बाधित्वा वृद्धिः स्यात्। खज मन्थे। कजेति केचित्पठन्ति। एजृ कम्पने। दीप्तौ त्वात्मनेपदी गतः। टुओस्फूर्जा। "ट्वनितोऽथुच्ट। स्फूर्जथुः। "ओदितश्चे"ति निष्ठानत्वार्थमोकारः। स्फूर्ग्णः। स्फूर्ग्णवान्। आकारस्तु "ओदितश्च" इति निष्ठायामिटो निषेधार्थः, "विभाषा भावादिकर्मणो"रिति विकल्पार्थश्चास्फूर्ग्ण, स्फूर्जितमनेनेत्यादि। "उपधायां चे"ति दीर्घस्याऽनित्यत्वज्ञापनार्थमिह दीर्घोपदेशः। तेन हुच्र्छति मुच्र्छति इत्यपि भवतीति केचित्। क्षि क्षये। अजन्तेष्वस्य पाठो युक्तः। "क्षि निवासगत्यो"रिति तुदादौ।