पूर्वम्: ७।२।११३
अनन्तरम्: ७।२।११५
 
सूत्रम्
मृजेर्वृद्धिः॥ ७।२।११४
काशिका-वृत्तिः
मृजेर् वृद्धिः ७।२।११४

विभक्तौ इति निवृत्तम्। मृजेरङ्गस्य इको वृद्धिर् भवति। मार्ष्टा। मार्ष्टुम्। मार्ष्टव्यम्। मृजेरिति धातुग्रहणम् इदम्, धातोश्च कार्यम् उच्यमानं धातुप्रत्यय एव वेदितव्यम्। तेन किंसपरिमृड्भ्याम्, कंसपरिमृड्भिः इत्यत्र न भवति।
लघु-सिद्धान्त-कौमुदी
मृजेर्वृद्धिः ७८५, ७।२।११४

मृजेरिको वृद्धिः सार्वधातुकार्धधातुकयोः। मार्ग्यः॥
न्यासः
मृजेर्वृद्धिः। , ७।२।११४

"मार्ष्टा" इति। "मृजू शृद्धौ" (धा।पा।१०६६) व्रश्चादिसूत्रेण ८।२।३६ षत्वम्(), "ष्टुत्वम्()। मृजेः क्विबन्ताद्विभक्तावुत्पन्नायां कंसपरिमृङ्भ्याम्(), कंसपरिमृङ्()भिरित्यत्र वृद्धिः प्राप्नोति, न च क्विबाश्रयः "क्ङिति च" १।१।५ इति वृद्धिप्रतिषेधो भवितुमुत्सहते; यस्मात्? क्ङितीति निंमित्तसप्तमी। न चात्र क्विब्निमित्ता वृद्धिः प्राप्नोति, किं तर्हि? विभक्तिनिम्त्ता। तस्मात्? तस्याः प्रतिषेधो वक्तव्य इत्यत आह--"मुजरिति धातुग्रहणम्()" इत्यादि। भ्रौणहत्य६।४।१७४मिति निपातनेन ज्ञापितोऽयमर्थः--धाताः कार्यमुच्यमानं धातुप्रत्यय एव भवतीति, तेन कंसमृङ्भ्यामित्यत्र न भवति। यो हि धातोरित्येवं विहितः स धातुप्रतययः। न च भ्यामादिकं धातोरित्येवं विहितम्(), किं तर्हि? प्रातिपदिकादित्येवम्(), तस्मान्नासो धातुप्रत्ययः। "कंसपरिमृङ्भ्याम्()" इत्यादि। पूर्ववत्? षत्वे कृत षकारस्य जश्त्वं डकारः॥
बाल-मनोरमा
मृजेर्वृद्धिः ३०४, ७।२।११४

मृजेर्वृद्धिः। "इको गुणवृद्धी" इति परिभाषया "इक" इत्युपस्थितम्। मृजेरित्यवयवषष्ठी। तदाह--मृजेरिको वृद्धिः स्यादिति। "धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञान"मिति परिभाषामभिप्रेत्य आह-- धातुप्रत्यये परे इति। धातोर्विहिते प्रत्यये इत्यर्थः। तेन परिमृङ्भ्यामित्यत्र न वृद्धिरिति भावः। गुणापवादोऽयम्। क्ङित्यजादौ वेष्यते। "मृजेर्वृद्धि"रिति शेषः। "इको गुणवृद्धी" इति सूत्रभाष्ये इदं पठितम्। व्रश्चेति ष इति। मृज्-ति इति स्थिते ऋकारस्य वृद्धौ रपरत्वे जकारस्य व्रश्चेति षत्वे तकारस्य ष्टुत्वेन टकारे मार्ष्टीति रूपमित्यर्थः। मृष्ट इति। ङित्त्वान्न वृद्धिर्नापि गुण इति भावः। मृजन्ति मार्जन्ति इति। "क्ङित्यजादा"विति वृद्धिविकल्प इति भावः। मार्षि मृष्ठः मृष्ठ। मार्ज्मि मृज्वः मृज्मः। ममार्जेति। णलि "मृजेर्वृद्धि"रिति अतुसादावजादौ किति वृद्धिविकल्पं मत्वा आह-- ममार्जतुः ममृजतुरिति। ममार्जुः ममृजुरित्यपि ज्ञेयम्। ऊदित्त्वादिड्विकल्पं मृजेर्वृदिं()ध च मत्वा आह-- ममार्जिथ ममार्ष्ठेति। इडभावे जस्य व्रश्चेति षः। थस्य ष्टुत्वेन ठ इति भावः। ममार्जथुः--ममृजथुः, ममार्ज--ममृज। ममार्ज, ममार्जिव-ममृजिव-मम#ऋज्व, ममार्जिम-ममृजिम- ममृज्म। लुट()आह--- मार्जिता मार्ष्टेति। ऊदित्त्वदिटि, तदभावे च "मृजेर्वृद्धि"रिति भावः। मार्जिष्यति-- माक्ष्र्यति। मार्ष्टु-- मृष्टात्, मृष्टाम्, मार्जन्तु--मृज्नतु। मृड्ढीति। हेरपित्त्वेन ङित्त्वान् वृद्धिः। व्रश्चादिना जस्य षः। हेर्धिः, षस्य जश्त्वेन डः, धस्य ष्टुत्वे ढः। मृष्टात् मृष्टम् मृष्ट। मार्जानि मार्जाव मार्जाम। लङ्याह--अमार्डिति। तिप इकारलोपे वृद्धौ रपरत्वे हल्ङ्यादिना तकारलोपे व्रश्चादिना जस्य षः, तस्य जश्त्वचर्त्वे इति भावः। अमृष्टाम् अमार्जन्- अमृजन्। अमार्ट् अमृष्टम् अमृष्टं। अमार्जमिति। अमृज्व अमृज्म। मृज्यात्। मृज्याताम्। मृज्यात्। मृज्यास्ताम्। अमार्जीत् अमार्क्षीदिति। ऊदित्त्वादिड्विकल्प इति भावः। इट्पक्षे अमार्जिष्टाम् अमार्जिषुरित्यादि सुगमम्। इडभावे आमार्ष्टाम् अमार्क्षुः। अमार्क्षीः। अमाष्र्टम् अमाष्र्ट। अमाक्र्षम् अमार्क्ष्व अमार्क्ष्म। अमार्जिष्यत-- अमाक्ष्र्यत्। रुधिर्()धातुरितित्। सेट्।

तत्त्व-बोधिनी
मृजेर्वृद्धिः २६३, ७।२।११४

मृजेर्वृद्धिः। गुणापवादः। धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानमित्याह-- धातुप्रत्यये किम्?। कंसपरिमड्भ्याम्।

*क्ङित्यजादाविति। एतञ्चाऽन्येषां वैयाकरणानां मतम्-- "इको गुणवृद्धी" इति सूत्रे भाष्यकृता स्वीकृतम्। मृड्ढीति। "हुझल्भ्यःर" इति हेर्धिः। षत्वष्टुत्वजश्त्वानि।