पूर्वम्: ७।२।५४
अनन्तरम्: ७।२।५६
 
सूत्रम्
जॄव्रश्च्योः क्त्वि॥ ७।२।५५
काशिका-वृत्तिः
जृ̄व्रश्च्योः क्त्वि ७।२।५५

जृ̄ व्रश्चि इत्येतयोः क्त्वाप्रत्यये इडागमो भवति। जरित्वा, जरीत्वा। व्रश्चित्वा। जृ̄ इत्येतस्य श्र्युकः किति ७।२।११ इति प्रतिषेधः प्राप्तः, व्रश्चेरुदित्वाद् विकल्पः। क्त्वाग्रहणं निष्ठानिवृत्त्यर्थम्।
न्यासः
जृ?व्रश्च्योः क्त्वि। , ७।२।५५

"जरीत्वा, जरित्वा" इति। "जृ? वयोहानौ" (धा।पा।१४९४) क्रैयादिकः। "वृतो वा" ७।२।३८ इति पक्षे दीर्घः। यस्तु "जृ()ष वयोहानौ" (धा।पा।११३०) इति विवादौ पठ()ते, तस्य सानुबन्धकत्वादिह ग्रहणं नास्तीति तस्य जौर्त्वेत्येवं भवति। "व्रश्चित्वा" इति। "ओ व्रश्चू छेदने" (धा।पा।१२९२)। "न क्त्वा सेट्()" (१।२।२८) इति प्रतिषेधाद्? ग्रहिज्येत्यादिसूत्रेण ६।१।१६ सम्प्रसारणं न भवति; किति तसय विधानात्()। अथ क्त्वाग्रहणं किमर्थम्(), यावता "क्लिशः क्त्वानिष्ठयोः" (७।२।५०) इत्यत एव कत्वाग्रहणमनुवत्र्तत एव? इत्याह--"क्त्वाग्रहणम्()" इत्यादि। तद्धि क्त्वाग्रहणं निष्ठ()आ सह सम्बद्धम्(), अतस्तदनुवृत्तौ तस्या अध्यनुवृत्तिः स्यात्()। एवं च सति निष्ठायामपि स्यात्()। तस्मात्? निष्ठानिवृत्त्यर्थमन्यदिह क्त्वाग्रहणं क्रियते॥
तत्त्व-बोधिनी
जृ?व्रश्च्योः क्त्वि १५९५, ७।२।५५

जृ()व्रश्च्योः। जृ? इत्यस्मात् "श्र्युकः किती"ति ति निषेधे प्राप्ते व्रश्चेरूदित्वाद्विकल्पे प्राप्ते वचनमिदम्। जरीत्वेति। "वृ()तो वा"इति इटो वा दीर्घः। व्रश्चित्वेति। इह "न क्त्वा से"डिति कित्त्वनिषेधात् "ग्रहिज्ये"ति संप्रसारणं न।