पूर्वम्: ७।२।१०
अनन्तरम्: ७।२।१२
 
सूत्रम्
श्र्युकः किति॥ ७।२।११
काशिका-वृत्तिः
श्र्युकः किति ७।२।११

श्रि इत्येतस्य उगन्तानां च किति प्रत्यये परतः इडागमो न भवति। श्रि श्रित्वा। श्रितः। श्रितवान्। उगन्तानां चयुत्वा। युतः। युतवान्। लूत्वा। लूनः। लूनवान्। वृत्वा। वृतः। वृतवान्। तीर्त्वा। वीर्णः। तीर्णवान्। श्र्युकः इति किम्? विदितः। किति इति किम्? श्रयिता। श्रयितुम्। श्रयितव्यम्। केचिदत्र द्विककारनिर्देशेन गकारप्रश्लेषं वर्नयन्ति, भूष्णुः इत्येवं यथा स्यात्। सौत्रत्वाच् च निर्देशस्य श्र्युकः किति इत्यत्र चर्त्वस्य असिद्धत्वमनाश्रित्य रोरुत्वं न कृतम् विसर्जनीयश्च कृतः इति। ग्लाजिस्थश्च क्ष्नुः ३।२।१३९ इत्यत्र स्था आ इत्याकारप्रश्लेषेण स्थास्नोः सिद्धत्वान् न किंचिदेतत्। उपदेशे इत्येव, तीर्ण इत्यत्र अपि यथा स्यात्। इत्वे हि कृते रपरत्वे चन स्यात्। मा भूदेवम्। इट् सनि वा ७।२।४१ इति विकल्पे विहिते यस्य विभाषा ७।२।१५ इति निष्ठायां प्रतिषेधो भविष्यति? कस्य पुनः सा विभाषा? ऋ̄तः। यद्येवम् इत्वे हि कृते न अयम् ऋ̄करान्तो भविष्यति? स्थानिवद्भावाद् भविष्यति। अनल्विधौ स्थानिवद्भावः, अल्विधिश्चायम्? तस्मादनुवर्तयितव्यम् उपदेशे इति। तथा च सति जागरितः, जागरितवानित्यत्र अपि प्राप्नोति, तदर्थम् एकाचः इत्यनुवर्तयितव्यम्। ऊर्णोतेस्तु वाच्य ऊर्णोर्णुवद्भावो यङ्प्रसिद्धिः प्रयोजनम्। आमश्च प्रतिषेधार्थम् एकाचश्चेडुपग्रहात्। प्रोर्णुतः। प्रोर्णुतवान्।
लघु-सिद्धान्त-कौमुदी
श्र्युकः किति ६५३, ७।२।११

श्रिञ एकाच उगन्ताच्च गित्कितोरिण् न। परमपि स्वरत्यादिविकल्पं बाधित्वा पुरस्तात्प्रतिषेध काण्डारम्भ सामर्थ्यादनेन निषेधे प्राप्ते क्रादिनियमान्नित्यमिट्। दुधुविव। दुधुवे। अधावीत्, अधविष्ट, अधोष्ट। अधविष्यत्, अधोष्यत्। अधविष्यताम्, अधोष्यताम्। अधविष्यत, अधोष्यत॥
लघु-सिद्धान्त-कौमुदी
इति स्वादयः ५ ६५३, ७।२।११

लघु-सिद्धान्त-कौमुदी
अथ तुदादयः ६५३, ७।२।११

तुद व्यथने॥ १॥
न्यासः
श्रयुकः किति। , ७।२।११

उदात्तार्थं आरम्भः। "लूनः" इति। "ल्वादिभ्यश्च" ८।२।४४ इति नत्वम्()। "तीर्णः" इति। अत्रापि "रदाभ्याम्()" ८।२।४२ इति। "केचित्()" इत्यादि "ग्लाजिस्थस्च क्स्नुः" (३।२।१३९) इति "भुवश्चेति वक्तव्यम्()" (३।२।१३८) ["भुवश्च"--इति सूत्रम्()] इत्यत्र भवतेः क्स्नुप्रत्यये गिति कृते सति विधीयमानस्वाद्? गितीट्प्रतिषेधो न प्राप्नोति, ततश्च भूष्णुरिति न सिध्येत्()। तस्माद्? भूष्णुरित्यत्रेट्प्रतिषेधार्थं केचित्? ()आभूति--व्याङिप्रभृतयः "श्रयुकः किति" इत्यत्र द्विककारनिर्देशेव हेतुना चत्र्वभूतो गकारः प्रश्लिष्ट इत्येवमाचक्षते। यदि चत्र्वभूतो गकारः प्रश्लिष्टः, एवं सति "ससजुषो रुः" (८।२।६६) इति रुत्वे कृते चत्र्वस्यासिद्धत्वात्? "हशि च" (६।१।११४) इति रोरुत्वेन भवितव्यम्? न तु विसर्जनीयेन, ततश्च "श्रयुकः किति" इति निर्देशो न युज्यते? इत्येतच्चोद्यं निराकर्त्तुमाह--"सौत्रत्वान्निर्देशस्य" इत्यादि। चत्र्वभूतस्यासिद्धत्वमनाश्रित्य रोरुत्वं न कृतम्(), विसर्जनीयश्च कृत इति वर्णयन्ति। किमर्थं पुनस्ते क्स्नुप्रत्येय गित्त्वं प्रतिजानते, यस्मिन्? सतीदं व्याख्यानं कत्र्तव्यं जायते? स्थास्नुशब्दस्य सिद्ध्यर्थम्। एवं हि ते मन्यन्ते--क्स्नोः कित्त्वे सति "धुमास्थागादि" ६।४।६६ सूत्रेण तिष्ठतेरीत्त्वं स्यात्(), ततश्च स्थास्नुरिति न स#इद्ध्येदिति। "ग्लाजिस्थश्च क्स्नु इत्यत्र" इत्यादि। गित्त्वे हि सति क्स्नोरट्प्रतिषेधार्थमेवं व्याख्यायते, न च तस्य गित्त्वम्()। किं तर्हि? कित्त्वमेव। न च कित्त्वे सतीत्त्वं प्रसज्यते, यस्मात्? "ग्लाजिस्थश्च क्स्नुः" ३।२।१३९ इत्यत्र स्था+आ इत्यकारप्रश्लेषः कृतः। तिष्ठतेः क्स्नुप्रत्ययान्तस्याकारान्तस्याकारान्ततैव यथा स्यातद्(), ईकारान्तता मा भूदित्येवमर्थः। आकाराप्रश्लेषे हि सतीत्त्वापवादस्तिष्ठतेराकारादेशो भवति, अतस्तेन बाधित्वादीत्त्वं न प्रवत्र्तते। तदेवं कित्त्वे सत्यकरप्रश्लेषात्? स्थास्नुशब्दस्य सिद्धत्वात्? न किञ्चिदेतत्()। एतद्व्यास्यानमसारमित्यर्थः। "तीर्णम्()" इत्यत्रापि किं पुनः कारणमसत्युपदेशग्रहणेऽत्रि न स्यात्(), यावता तरतिरयमुगन्तः पठ()ते? इत्याह--"इत्त्वे हि" इत्यादि। "ऋत्? इद्धातोः" ७।१।१०० इतीत्त्वे च कृत उगन्तता विहतेत्यसत्युपदेशग्रहणे न स्यात्(), त()स्मस्तु सति भवति। यद्यप्युत्तरकालं तरतिरुगन्तो न भवति, तथाप्युपदेश एव। "मा भूदेवम्()" इत्यादि। चोदकः। "कस्य पुनः" इत्यादोतरः। "ॠतः"["कृतः" इति मुद्रितः पाठः] इति चोदकः। "यद्येवम्()" इत्यादीतरः। "स्थानिवद्भावात्()" इति। अल्विधित्वं पुनरुगिति प्रत्याहारग्रहणात्()। "तस्मात्()" इति। आह--यस्मादेदमसत्युपदेशग्रहणे तीर्ण इत्यत्र प्रतिषेधो न प्राप्नोति, तस्मादुपदेश इत्यनुवत्र्तनीयम्()। "तथा च सति" इत्यादि। उपदेशेऽनुवत्र्तमाने सतीत्यर्थः। "जागरित इत्यत्रापि प्राप्नोति" इति। जागत्र्तेरुपदेशावस्थायामुगन्तत्वात्()। "तदर्थम्()" इति। जागरित इत्यादाविट्प्रतिषेधप्राप्तिनिवृत्त्यर्थम्(); अर्थशब्दस्य निवृत्तिवाचित्वात्()। यदि तर्हि "एकाचः" ७।२।१० इत्यनुवत्र्तते, प्रोर्णुतः, प्रोर्णुतवनित्यत्रेट्प्रतिषेधो न प्राप्नोति; ऊरणोतेरनेकाण्त्वात्()? इत्यत आह--"वाच्य ऊर्णोर्णुवत्()" इत्यादि। अस्याः कारिकायाः पूर्वमेवार्थो व्याख्यात इति न पुनव्र्याख्यायते॥
बाल-मनोरमा
श्र्युकः क्किति २१८, ७।२।११

अत्र इण्निषेधं शङ्कितुमाह-- श्र्युकः क्किति। श्रिश्च उक् चेति समाहारद्वन्द्वात् षष्ठी। उक् प्रत्याहारः। अङ्गस्येत्यधिकृतं पञ्चम्या विपरिणतम् उका विशेष्यते। तदन्तविधिः। "एकाच उपदेशे"इत्यत इत्यनुवृत्तमिगन्तेऽन्वेति। "नेड्वशि कृती"त्यतो नेडिति। क्कितीति सप्तमी षष्ठ()र्थे। गच् कच् क्कौ, तौ इतौ यस्येति विग्रहः। गकारस्य चर्त्वेन निर्देशः। तदाह-- श्रिञ एकाच इत्यादिना। गकारप्रश्लेषः किम्?। भूष्णुः। "ग्लाजिस्थश्चग्स्नु"रिति चकाराद्भूधातोर्ग्स्नुः। तस्य गित्त्वादिण्न। कित्त्वे तु स्थास्नुरित्यत्र "घुमास्थे"ति ईत् स्यात्। इण्न स्यादित्यनन्तरम्-- अनेन निषेधे प्राप्ते इत्यन्वयः। नन्वियं शङ्का न युज्यते, "श्रयुकः क्किती"ति निषेधं बाधित्वा परत्वात् "स्वरतिसूती"ति विकल्पस्य प्राप्तेरित्यत आह--परमपीत्यादि, सामथ्र्यादित्यन्तम्। पुरस्तात्प्रतिषेधकाण्डारम्भसामथ्र्यात्परमपि स्वरत्यादिविकल्पं बाधित्वा अनेन निषेधे प्राप्ते इत्यन्वयः। "आद्र्धधातुकस्ये"डित्यादिविधिकाण्डात्प्रागेव "नेड्वशि कृती"त्यादि प्रतिषेधकाण्डारम्भसामथ्र्याद"त्स्वरती"ति विकल्पोऽप्यनेन बाध्यते इत्यर्थः। परमपीत्यादिः, प्राप्ते इत्यन्तः शङ्काग्रन्थः। परिहरति-- क्रादिनियमान्नित्यमिडिति। प्रकृत्याश्रयः प्रत्ययाश्रयो वा यावानिण्निषेधः स लिटि चेत्तर्हि क्रादिभ्य एवेत्युक्तत्वादिति भावः। लुटि--स्वरिता स्वर्ता। लृटि स्ये "स्वरती"तिविकल्पं निरस्यति-- परत्वादिति। स्वरतु। अस्वरत्। स्वरेत्। स्वर्यादिति। आशीर्लिङि "गुणोऽर्तिसंयोगाद्यो"रिति गुणः। अस्वारीदिति। "स्वरती"तीट्पक्षे वृद्धिरिति भावः। अस्वार्षीदिति। इडभावे "सिचि वृद्धि"रिति वृद्धिरिति भावः। स्मृचिन्तायामिति। अयमप्यनिट्। स्मरति। लिटि "ऋतश्चे"ति कित्यपि गुणः। णलि तु गुणे उपधावृद्धिः। सस्मार सस्मरतुः सस्मरुः। ऋदन्तत्वाद्भारद्वाजमतेऽपि क्रादिनियमप्राप्तस्य इटस्थलि नित्यनिषेधः। सस्मर्थ सस्मरथुः सस्मर। सस्मार--सस्मर सस्मरिव सस्मरिम। स्मर्ता। लृटि स्ये "ऋद्धनो"रितीट्--स्मरिष्यति। स्मरतु। अस्मरत्। स्मरेत्। आशीर्लिङ "गुणोऽर्ती"ति गुणः--स्मर्यात्। लुङि सिचि वृद्धौ रपरत्वम्--अस्मार्षीत्। अस्मरष्यत्। द्वृ संवरणे इति।अयमपि स्मृधातुवत्। [अस्यैव द्वारमित्यादि]। सृ गताविति। ऋदन्तोऽयमनिट्। सरति। लिटि संयोगादित्वाऽभावादृतश्चेति गुणो न। ससार सरुआतुः। क्रादत्वान्नेडिति। सृधातोः क्राद#इस्थत्वादिति भावः। ससर्थेति। क्रादित्वात्थल्यपि नित्यं निषेध इति भावः। सरुआथुः सरुआ।ससार ससार ससृव ससृम। इत्यपि ज्ञेयम्। सर्ता। लृटि "ऋद्धनो"रितीट्--सरिष्यति। सरतु। असरत्। सरेत्। आशीर्लिङि संयोगादित्वाऽभावात् "गुणोऽर्ती"ति न गुणः। किंतु "रिङ् शयग्लिङ्क्षु" इति रिङित्याह-- रिङिति। रिउआयादिति। रीङि प्रकृतेरिङ्()विधिसामथ्र्यान्न दीर्घ इति भावः। असार्षीदिति। सिचि वृद्धौ रपरत्वम्।

तत्त्व-बोधिनी
श्र्युकः क्किति १९०, ७।२।११

श्र्युकः किति। "एकाच उपदेशे" इत्यत एकाच इत्यनुवर्तते। तच्च उको विशेषणमित्याह-- एकाच उगन्तादिति। श्रितः। श्रितवान्()। श्रित्वा। भूतः। भूत्वा। भूतिः। गित्युदाहरणं-- भूष्णुः। "ग्लाजिस्थश्चे"ति ग्स्नुः। स च गिद्भवति न कित्। स्थास्नुरित्यत्र "घुमास्थे"तीत्त्वप्रसङ्गात्। एकाच इति किम्?। जागरितः। जागरितवान्। ऊर्णोतेस्तु नुवद्भावे--ऊर्णुतः। ऊर्णुतवानिति सिध्यति। उगन्तात्किम्?। शयितः। शयितवान्। पुरस्तादित्यादि। "आद्र्धधातुकस्येड्वलादे"रित्यादि विधिकाण्डात्प्रागेव "नेज्वशि कृती"त्यादिप्रतिषेधकाण्डारम्भसामथ्र्यादित्यर्थः। निषेधे प्राप्ते इति। स्वृतः। सूतः। धूत इत्यादौ यथेति भावः। सृ गतौ। सरति। सरिष्यति।