पूर्वम्: ७।२।८१
अनन्तरम्: ७।२।८३
 
सूत्रम्
आने मुक्॥ ७।२।८२
काशिका-वृत्तिः
आने मुक् ७।२।८२

आने परतो ऽङ्गस्यातः मुगागमो भवति। पचमानः। यजमानः। अकारमात्रभक्तो ऽयं मुकदुपदेशग्रहणेन गृह्यते इति अदुपदेशादिति लसार्वधातुकानुदत्तत्वं भवति। यद्येवम् आतो ङितः ७।२।८१ इत्ययम् अपि चिधिः प्राप्नोति? तपरनिर्देशान् न भविष्यति। मुकि सति अध्यर्धमात्रो भवति। लसार्वधातुकानुदात्तत्वम् अपि तर्हि न प्राप्नोति? न एष दोषः। उपदेशग्रहणं तत्र क्रियते। तेन उपदेशादूर्धं सत्यपि कालभेदे भवितव्यम्। तथा च पचवः, पचामः इत्यत्र अपि भवति।
लघु-सिद्धान्त-कौमुदी
युवावौ द्विवचने ३१६, ७।२।८२

द्वयोरुक्तावनयोर्मपर्यन्तस्य युवावौ स्तो विभक्तौ॥
लघु-सिद्धान्त-कौमुदी
आने मुक् ८३५, ७।२।८२

अदन्ताङ्गस्य मुगागमः स्यादाने परे। पचमानं चैत्रं पश्य। लडित्यनुवर्तमाने पुनर्लड्ग्रहणात् प्रथमासामानाधिकरण्येऽपि क्वचित्। सन् द्विजः॥
न्यासः
आने मुक्?। , ७।२।८२

"अङ्गस्यातः" इति। व्याधिकरणे षष्ठ()ओ--आङ्गस्य योऽत्? तसय मुगगमो भवतीति। तदिहाद्ग्रहणं तर्हि क्रियताम्()? न कत्र्तव्यम्(); "अतो येयः" ७।२।८० इत्यतोऽत इत्यनुवर्त्तिष्यते। ननु च पञ्चमीनिर्दिष्टं तत्र, षष्ठीनिर्दिष्टेन चेहार्थः? नैतदस्ति; अत इत्येषा तु पञ्चमी तत्रेयादेशे चरितार्था, "आने" इत्येषा तु सप्तम्यकृतार्था। तस्मादान इत्येषा सप्तम्यत इत्यस्याः पञ्चमी तत्रेपादेशे चरतार्था, "आने इत्येषा तु सप्तम्यकृतार्था। तस्मादान इत्येषा सप्तम्यत इत्यस्याः पञ्चम्याः षष्ठीत्वं परिकल्पबयिष्यति, "तस्मिन्निति निर्द्दिष्टे पूर्वस्य" १।१।६५ इति नियमात्()। ननु चाकारोवर्णो मकारोऽपि वर्ण एव, मुगयं त्वन्तलिङ्गः, अन्तश्चावयवः, न च वर्णो "वर्णस्यावयवो ["वर्णस्यावयवी--मुद्रित पाठः] युज्यते, तेनानारब्धत्वात्(), तस्मादयुक्तमुक्तम्()--अतो मुगागमो भवतति? नैष दोषः; सर्वत्रैव हि यस्यागमो विधीयते, यश्चागमो विधीयते तत्समुदायापेक्षयाऽ‌ऽदित्वमन्तत्वं वा विधीयते। तस्मादत्तो मुगागमो भवतीत्यस्यार्थोऽयं विवक्षितः--अकारादिरयं समुदायो सकारान्तश्च भवतीति। "पचमानः" इति। लट्(), तस्य शानच्()। आने परतोऽह्गस्यातो मुगागमो भवतीत्युक्ते समानाधिकरणे एते षष्ठ()आविति मन्यमानोऽकारान्तस्य आने परतो मुगगगमो भवतीतीदं सूत्रार्थ गृहीत्वा य एवं देशयेत्()--यद्यकारान्तमङ्गमागमि, पचमान इत्यत्र "अदुपदेशाल्लसार्वधातुकमनुदात्तम्()" ६।१।१८० इत्यनुदात्तत्वं न स्यात्(); अकारस्य मुका व्यवहितत्वात्()। अकारो य उपदेश इत्येवं हि ततर व्यवस्थितम्(), न त्वकारान्तोऽयमुपदेश इति। न च शक्यते वक्तुम्()--अङ्गभक्तोऽयं नुक्(), अतो नास्ति व्यवदानमिति; अङ्गभक्तो ह्रयमङ्गमेव न व्यवदध्यात्(), अकारं तु व्यवदधात्येव। अवयवो हि समुदायस्य व्यवधायको न भवति। अवयवान्तरस्य तु व्यवधायको भवत्येवेत्यत आह--"अकारमात्रभक्तो ह्रयम्()" इत्यादि। मात्रशब्दोऽयमङ्गभक्तत्वव्यवच्छेदाय। अङ्गञ्चात्राकारविशेषणम्()। अकार एवागमी, नाङ्गम्()। तस्मात्? तदभक्तत्वात्? तदग्रहणेनैव मुग्? गृहयत इति व्यवधानाभावाल्लसार्वधातुकमनुदत्तं भवति। ननु चाकारान्तभक्तेऽपि मुकि भवितव्यमेव "लसार्वधातुकमनुदात्तमहन्विङोः" ६।१।१८० इत्यनुदात्तत्वेन, "स्वरविधौ व्यञ्जनमविद्यमानवत्()" (व्या।प।३७) इति मुकोऽविद्यमानवत्त्वाद्व्यवधानाभावात्()? एवं मन्यते--नैषा परिभाषा भाष्यकारस्य सम्मता। तथा हि--तेनेमां परिबाषां प्रत्याख्यायेयमन्या परिभाषा गृहीता--"हलःस्वरप्राप्तौ ["हल्स्वरप्राप्तौ--नी।प।वृ] व्यञ्जनमविद्यमानवत्()" (नी।पा।वृ।६८), इति। न चात्र हलः स्वरप्रापतिरस्ति, किं तर्हि? अचः। "यद्येवम्()" इत्यादि। यद्यकारभक्तोऽय मुकं तद्ग्रहहणेन गृह्र इत्येवं स्त्यव्यवधायकत्वादेव तस्य पचमान इत्यत्राकारादनन्तरस्यान इति, तस्य "आतो ङितः" ७।२।८१ इतीयदेशः प्राप्नोतीत्यत आत--"तपरकरणनिर्देशान्न भवति" इति। अकारो ह्रत्र मात्राकालस्तपरो निरदिष्टो मुकि सतयर्धमात्रो भवति। अतः कालभेदान्न भविष्यति। अधिकमद्र्ध यस्याः साऽध्यद्र्धा, अध्यद्र्धा मात्रा यस्या सोऽद्यद्र्धमात्रः। लसार्वधातुकमनुदात्तमपि तर्हि न प्राप्नोतीति तद्विधावपि तपरनिर्देशात्()। "उपदेशग्रहणम्()" इत्यादि। उपदेशग्रहण तत्र क्रियते प्रागवस्थोपलश्रणार्थम्()। तेन उपदेशावस्थायां मात्राकालस्तस्य यद्यप्युत्तरकालं मुकि कृते कालभेदोऽस्ति, तथापयुपदेशावस्थायां मात्राकालत्वाद्भवत्येवात्रानुदात्तत्वम्()। "तथा च" इत्यादि। यतस्तत्रोपदेशादूध्र्वं सत्यपि कालभेदेऽनुदात्तत्वेन भवितव्यम्(), एवञ्च कृत्वा यत्रापि "अतो दीर्घो यञि" ७।३।१०१ इति द#ईर्घत्वे कृते कालभेदोऽस्ति--पचाव इत्यादौ, तत्रापि भवति॥
बाल-मनोरमा
आने मुक् ९०३, ७।२।८२

आने मुक्। "अङ्गस्ये"त्यधिकृतम् "अतो येयः" इति पूर्वसूत्रादनुवृत्तेन षष्ठ()आ विपरिणतेन अता विशेष्यते। तदन्तविधिः। तदाह-- अदन्तस्येति। मुकि ककार इत्, उकार उच्चारणार्थः, कित्त्वादन्तावयवः। अनुवर्तमाने इति। "वर्तमाने ल"डिति पूर्वसूत्रादनुवृत्तस्य लडित्यस्य षष्ठ()आ विपरिमाणेन उक्तार्थलाभे सतीत्यर्थः। अधिकेति। सूत्राक्षराऽनारूढस्यापि अर्थस्य लाभार्थमित्यर्थः। सन् ब्राआहृण इति। "अस भुवि" शतृप्रत्यये शपो लुक्, श्नसोरल्लोपः। माङीति। माङि प्रयुज्यमाने आक्रोशे गम्ये लटः शतृशानचाविति वक्तव्यमित्यर्थः। मा जीवन्निति। न जीवत्ययम्। अनुपकारित्वान्मृतप्राय इत्यर्थः। "मा पचमान" इत्यप्युदाहार्यम्। "लटः शतृशानचौ" इत्येव सिद्धेः किमर्थमिदमित्यत आह-- माङि लुङितीति।

तत्त्व-बोधिनी
आने मुक् ७४४, ७।२।८२

आने मुक्। "अतो येयः" इति पूर्वसूत्रादनुवृत्तं पञ्चम्यन्तमप्यत इति पदं षष्ठ()आ विपरिणम्यते, "आने" इति सप्तमीबलात्। न चाऽत इति पञ्चमीबलादान इति सप्तम्यन्तं पं षष्ठ()आ विपरिणम्यते इति शङ्क्यं, पञ्चम्याः पूर्वसूत्रे चरितार्थत्वात्सप्तम्याश्चाऽचरितार्थत्वात्। तदेतदाह-- अङ्गस्याऽत इति। प्राचा त्वदन्तङ्गस्येति व्याख्यातं, तदयुक्तम्। "पचमान" इत्यादौ "अदुपदेशाल्लसार्वधातुकमनुदात्त"मिति शानचः स्वरस्याऽसिद्धिप्रसङ्गात्। "अदन्ताङ्गस्ये"ति पक्षे हि "अङ्गभक्तो मुक् स चाङ्गमेव न व्यवदध्यात् , तदवयवमकारं तु व्यवदध्यादेव। अकारमात्रभक्तत्वे तु तदवयवत्वान्नास्ति व्यवधानमित्यदोषः। ननु "स्वरविधौ व्यञ्जनमविद्यमानव"दिति परिभाषया मुकोऽविद्यमानवत्त्वेन व्यवधानाऽबावात्स्यादेवानुदात्तत्वमिति चेत्। अत्राहुः- हलः स्वरप्राप्तौ व्यञ्जनमविद्यमानवन्नान्यत्रेत्याकरारूढम्। न चाऽत्र हलः स्वरप्राप्तिरस्तीति प्रकृते परिभाषेयं नोपयुज्यते। अन्यथा मरुत्त्वनित्यादावपि "ह्यस्वनुड्()भ्यां मतु"विति मतुप उदात्तत्वं स्यादिति दिक्। लिडिति। यद्यपि प्रथमान्तं प्रकृतं, तथापि धातोरित्यधिकारात्पञ्चम्यन्तात्परं प्रथमान्तं षष्ठ()#आ विपरिणम्यत इति भावः। न च "वर्तमाने ल"डित्यत्रैवोक्तरीत्या विपरिणामोऽस्त्विति शङ्क्यं, प्रत्ययविधौ पञ्चम्याः प्रकल्पकत्वं नास्तीति "गुप्तिज्किद्भ्यः स"नित्यत्र भाष्यकारैः स्वीकृत्वात्। प्रथमासामानाधिकरण्येऽपीति। उपलक्षममिदम्। अप्रथमान्तेन सामानाधिकरण्याऽभावेऽपीत्यर्थः। उपलक्षणमिदम्। अप्रथमान्तेन सामानाधिकरण्याऽभावेऽपीत्यर्थः। तेन कुर्वतोऽपत्यं कौर्वतः। कुर्वतो भक्तिः कुर्वद्भक्तिः,कुर्वाणभक्तिरिति प्रत्ययोत्तरपदयोरपि सिध्यति। अन्यथा कुर्वतोऽपत्यमित्यादौतद्धितसमासौ न स्याताम्।