पूर्वम्: ७।२।८२
अनन्तरम्: ७।२।८४
 
सूत्रम्
ईदासः॥ ७।२।८३
काशिका-वृत्तिः
ईदासः ७।२।८३

आसः उत्तरस्य आनशब्दस्य ईकारादेशो भवति। आसीनो यजते। अत्र पञ्चम्याः परस्य षष्ठी कल्प्यते।
न्यासः
ईदासः। , ७।२।८३

"आसः" इति पञ्चम्यकृतार्था "आने" ७।२।८२ इति पूर्वत्र कृतार्थायाः सप्तम्याः षष्ठीत्वं प्रकल्पयिष्यति; "तस्मादित्युत्तरस्य" १।१।६६ इति वचनात्()। तेनानस्यैवायमादेशो विधीयते, इत्याह--"आस उत्तरस्यानशब्दस्य" इति। "आसीनः" इति। "आस उपवेशने" (धा।पा।१०२१)। अनुदात्तेत्त्वादात्मनेपदम्(); "आदेः परस्य" १।१।५३ इत्याकारस्येकारः। अदादित्वाच्छयो लुक्()। तपरकरणं मुखसुखार्थम्()॥
बाल-मनोरमा
ईदासः ९०६, ७।२।८३

ईदासः। आस इति पञ्चमी। आनस्येति। "आने मु"गित्यतस्तदनुवृत्तेरिति भावः।