पूर्वम्: ७।३।१०७
अनन्तरम्: ७।३।१०९
 
सूत्रम्
ह्रस्वस्य गुणः॥ ७।३।१०८
काशिका-वृत्तिः
ह्रस्वस्य गुणः ७।३।१०८

सम्बुद्धौ इति वर्तते। ह्रस्वान्तस्य अङ्गस्य गुणो भवति सम्बुद्धौ परतः। हे अग्ने। हे वायो। हे पटो। हे कुमारि, हे ब्रह्मबन्धु इत्येवम् आदीनां ह्रस्वविधानसामर्थ्याद् गुणो न भवति। यदि गुणः इष्टः स्यात्, अम्बार्थानां ह्रस्वः इत्युक्त्वा नदीह्रस्वयोर् गुणः इत्येवं ब्रूयात्।
लघु-सिद्धान्त-कौमुदी
ह्रस्वस्य गुणः १६९, ७।३।१०८

सम्बुद्धौ। हे हरे। हरिम्। हरी। हरीन्॥
न्यासः
ह्यस्वस्य गुणः। , ७।३।१०८

ह्यस्वग्रहणं प्रकृताङ्गविशेषणम्(), विशेषणेन च तदन्तविधिर्भवतीत्याह--"ह्स्वान्तस्य" इत्यादि। एवमुत्तरत्रापि तदन्तविधिर्वेदितव्यः। अथ हे कुमारि, हे ब्राहृबन्ध्वित्येवमादीनां कस्मान्न भवति? इत्याह--"हे कुमारि" इत्यादि। यदि ह्यस्वत्वे कृते गुणः स्यात्, ह्यस्वकरणमनर्थकं स्यात्()। ननु च गुणार्थमेतत्? स्यात्, असति हि तस्मिन्? "ह्यस्वसय गुणः" ७।३।१०८ इति गुणो न स्यात्(), अह्यस्वान्तत्वात्()? इत्याह--"यदि" इत्यादि। एवं प्रक्रियागौरवं परिह्मतं भवतीति भावः॥
बाल-मनोरमा
ह्यस्वस्य गुणः २४०, ७।३।१०८

हे हरि स् इति स्थिते ह्यस्वस्य गुणः। "सम्बुद्धौ चे"त्यतः सम्बुद्धावित्यनुवर्तते। तदाह--ह्यस्वस्येत्यादिना। अनेन रेफादिकारस्य गुण एकारः। सम्बुद्धिलोप इति। एङः परत्वादिति भावः। नत्वत्र ह्यस्वात्परत्वमस्ति, परत्वान्नित्यत्वाच्च सम्बुद्धिगुणे कृते ह्यस्वात्परत्वाऽभावात्। हरिमिति। अमि पूर्वरूपे रूपम्। हरीनिति। पूर्वसवर्णदीर्घे "तस्माच्छसः" इति नत्वम्।