पूर्वम्: ७।३।११
अनन्तरम्: ७।३।१३
 
सूत्रम्
सुसर्वार्धाज्जनपदस्य॥ ७।३।१२
काशिका-वृत्तिः
सुसर्वार्धाज् जनपदस्य ७।३।१२

सु सर्व अर्ध इत्येतेभ्यः उत्तरस्य जनपदवाचिनः उत्तरपदस्य अचामादेरचः वृद्धिर् भवति तद्धिते ञिति, णिति, किति च परतः। सुपाञ्चालकः। सर्वपाञ्चालकः। अर्धपाञ्चालकः। जनपदतदवध्योश्च ४।२।१२३, अवृद्धादपि बहुवचनविषयात् ४।२।१२४ इति वुञ्। सुसर्वार्धदिक्शब्देभ्यो जनपदस्य इति तदन्तविधिः।
न्यासः
सुसर्वार्धाज्जनपदस्य। , ७।३।१२

"जनपदस्य" इति। नेवं स्वरूपग्रहणम्(), उत्तरसूत्रे "अमद्राणाम्()" ७।३।१३ इति निषेधात्()। उत्तरसूत्रेहीदमेव जनपदग्रहणमनुवत्र्तते, ततोऽत्र यदि स्वरूपग्रहणं स्यात्(), मद्राणां प्रतिषेधोऽनर्थकः स्यात्(), तस्मादर्थस्येदं ग्रहणम्(), तेन जनपदवचिनः कार्यं विज्ञायत इत्याह--"सुसर्वार्धं इत्येतेब्य उत्तरस्य जनपदवाचिनः" इत्यादि। "सुपाञ्चालकः" इति। शोभनाः पञ्चाला इति प्रादिसमासः। "सर्वपाञ्चालकः" इति। "पूर्वकालैक" २।१।४८ इत्यादिना कर्मधारयः। "अर्धपाञ्चालकः" इति। "अर्ध नपुंसकम्()" २।२।२ इत्यर्धशब्देन तत्पुरुषः। सर्वत्र शैषिके जातादावर्थे तद्धितः। कथं जनपदात्? "जनपदतदवद्योश्च" (४।२।१२४) इत्युच्यमानः प्रत्ययस्तदन्ताद्भवति? इत्याह--"सुसर्वार्धदिक्शब्देभ्यः" इत्यादि॥
बाल-मनोरमा
सुसर्वार्धाज्जनपदस्य १३७८, ७।३।१२

सुसर्वार्धाज्जनपदस्य। सु, सर्व, अर्ध इत्येतत्पूर्वस्य जनपदवाचिन इत्यर्थः। उत्तरपदस्य वृद्धिरिति। शेषपूरणम्। सुपाञ्चालक इति। सुपञ्चालेषु जात इत्यर्थः। जनपदेति। "जवपदतदवध्यो"रित्यनुवृत्तौ "अवृद्धादपि बहुवचनविषया"दिति वुञित्यर्थः। ननु "अनृद्धादपी"ति प्रत्ययविधौ कथं तदन्तविधिरित्यत आह--सुसर्वेति। सु, सर्व अर्ध, दिक्शब्द -एभ्यः परस्य जनपदवाचिन उपरि प्रत्ययविधौ तदन्तविधिरित्यर्थकेन "येन विधि"रिति सूत्रभाष्यपठितवचनेन तदन्तविधिरित्यर्थः।

तत्त्व-बोधिनी
सुसर्वार्धाज्जनपदस्य १०८३, ७।३।१२

सुसर्वा। जनपदतदवध्योरितीति। तस्मिन्ननुवर्तमाने "अवृद्धादपि बहुवचनविषया"दित्यनेनेत्यर्थः।