पूर्वम्: ७।३।१०
अनन्तरम्: ७।३।१२
 
सूत्रम्
अवयवादृतोः॥ ७।३।११
काशिका-वृत्तिः
वक्ष्यति अवयवादृतोः ७।३।११

पूर्ववर्षिकम्। अपरवार्षिकम्। पुर्वहैमनम्। अपरहैमनम्। यत्र पञ्चमीनिर्देशो न अस्ति जे प्रोष्ठपदानाम् ७।३।१८ इत्येवम् आदौ, तदर्थम् उत्तरपदाधिकारः। पञ्चमीनिर्देशेष्वपि विस्पष्टार्थम्, वृद्धेश्च व्यपदेशार्थम्। उत्तरपदवृद्धौ सर्वं च ६।२।१०५ इति उत्तरपदाधिकारे या वृद्धिः इत्येवं विज्ञायते। अवयवादृतोः ७।३।११। अवयववाचिनः उत्तरस्य ऋतुवाचिनः उत्तरपदस्य च अचामादेः अचः वृद्धिर् भवति तद्धिते ञिति, णिति, किति च परतः। पूर्ववार्षिकम्। पूर्वहैमनम्। अपरवार्षिकम्। अपरहैमनम्। पूर्वं वर्षाणाम्, अपरं वर्षाणाम् इति एकदेशिसमासः। तत्र भवः ४।३।५३ इत्येतसिमिन्नर्थे वर्षभ्यष्ठक् ४।३।१८, हेमन्ताच् च ४।३।२१, सर्वत्र अण् तलोपश्च ४।३।२२ इत्यण् प्रत्ययः। तत्र ऋतोर् वृद्धिमद्विधौ अवयवातिति तदन्तविधिः। अवयवातिति किम्? पूर्वासु वर्षासु भवम् पौर्ववर्षिकम्। कालाट् ठञ् ४।३।११ इति ठञ्। अवयवपूर्वस्य एव तदन्तविधिः, न अन्यस्य।
न्यासः
अवयवादृतोः। , ७।३।११

"ऋतोः" [नास्ति--मु। पुस्तके] इति। नेदं स्वरूपग्रहणम्(), किं तर्हि? अर्थग्रहठणम्()। तथा ह्रवययवादित्युच्यते, ऋतोश्चायं एवावयधी भवति। अवयविथ्येनतौ। विज्ञयमानेऽर्थनिर्देशोऽयं विज्ञायते, ततश्चावयववाचिनः पूर्वपदादुत्तरस्यर्त्तुवाचिनः कार्यं विज्ञायत इत्याह--"अवयववाचिनः" इत्यादि। "एकदेशिसमासः" इति। पूर्वापरादिसूत्रेण २।२।१। ननु ग्रहठणवता प्राप्तिपधेकेन तदन्तविधिः (व्या।प।८९) प्रतिषिध्यते, तत्कथं वर्षाहेमन्ताभ्यां प्रत्ययो विधीयमानस्तदन्ताभ्यां लक्ष्यते? इत्याह--"तत्र ऋती वृद्धिमद्विधाववयवानाम्()" इति। "पौर्ववर्षिकः" [पौर्ववार्षिकम्()--काशिका] इति। पूर्वाश्च ता वर्षाश्चेति विशेषणसमासं कृत्वा भवार्थे तद्धितो विधेयः। पूर्वशब्दोऽत्र कालवाची, न त्ववयववाचीत्यङ्गस्यादिवृद्धिरेव भवतोति। अथात्रापि तदन्तविधिना ठक्? कस्मान्न भवपति? इत्याह--"अवयवपूर्वस्यैव हि" इत्यादि॥
बाल-मनोरमा
अवयवादृतोः १३७७, ७।३।११

अवयवादृतोः। पूर्वपदादिति। "परस्ये"ति शेषः। ऋतुवाचिन इति। "उत्तरपदस्ये"ति सेषः। पूर्ववार्षिक इति। ऋतिविशेषे वर्णशब्दो नित्यस्त्रीलिङ्गो बहुवचनान्तः। वर्षाणां पूर्वं-पूर्ववर्षाः, तत्र जात इत्यर्थः। पूर्वापराधरोत्तर"मित्येकदेशिसमासः। अपरहैमन इति। हेमन्तस्यापरम्-अपरहेमन्तः। तत्र जातादिरित्यर्थः। एकदेशिसमासः। अपरहैमन इति। हेमन्तस्यापरम्--अपरहेमन्तः। तत्र जातादिरित्यर्थः। एकदेशिसमासः। "सर्वत्राण्च तलोपश्चे"त्यण्, तलोपश्च, उत्तरपदादिवृद्धिः। पूर्वासु वर्षास्विति। "तद्धितार्थ" इति समासः। आदिवृद्धिरेव, न तु उत्तरपदादि वृद्धिः, पूर्वपदस्य अवयववृत्तित्वाऽभावात्।

ननु कथमिह "वर्षाभ्यष्ठ"गिति ठक्, प्रत्ययविधौ तदन्तविधिप्रतिषेधात्, तत्राह--ऋतोरिति। अवयववाचकानां शब्दानामुपरि स्थिताट्टतुवाचकाद्वृद्धिनिमित्तकप्रत्ययविधाने कर्तव्ये तदन्तविधिर्वाच्य इत्यर्थकेन "येन विधि"रिति सूत्रभाष्यस्थितवचनेन पूर्वत्र=पूर्वमुदाह्मते उदाहरणे तदन्तविधिरित्यर्थः। तथाच पूर्ववार्षिक इत्यत्र "पूर्वहैमन" इत्यत्र चोदाहरणे "वर्षाभ्यष्ठ"गिति ठक्, "सर्वत्राण् च तलोपश्चे"त्यण्तलोपौ च सिध्यन्ति। इह तु नेति। प्रत्युदाहरणे तु तदन्तविधिर्नास्ति। पूर्वासु वर्षास्विति सामानाधिकरण्येन पूर्वशब्दस्य अवयववृत्तित्वाऽभावादित्यर्थः। ततश्च प्रत्युदाहरणे "पौर्ववार्षिक" इत्यत्र "कालाट्ठञि"ति ठञेव, नतु ठक्। स्वरे विशेषः। पौर्वहेमन्तिक इत्यत्रापि ठञेवेति भावः।

तत्त्व-बोधिनी
अवयवादृतोः १०८२, ७।३।११

अवयवादृतोः। पूर्ववार्षिक इत्यादि। वर्षाणां पूर्वः, हेमन्तस्यापर इति विग्रहे "पूर्वापराधरोत्तर"मित्येकदेशसमासः। पूर्वास्विति। तद्धितार्थे समासः।

ऋतोर्वृद्धिमद्विधाववयवानम्। ऋतोर्वृद्धिमद्विधाविति। ऋतुवाचिनः शब्दाद्वृद्धिनिमित्तकप्रत्ययविधाने तदन्तविधिर्वाच्यः, स चेदृतुवाची शब्दोऽवयवेभ्यः पर इत्यर्थः। पूर्वत्रेति। "पूर्ववाषिकः"अपरहेमन"इत्यत्र। तथा च "वर्षाब्यष्ठक्", "सर्वत्राण्च तलोपश्चे"त्याभ्यां क्रमेण ठगणौ भवतः। वृद्धिमद्विधौ किं()। पूर्वप्रावृषम्। "प्रावृष एण्यः"इत्यत्र तदन्तविध्यभावादिह ऋत्वणेव। इह त्विति। "पौर्ववर्षिक"इत्यत्र। तथा चेह--"कालाट्ठ"ञिति ठञेवेति भावः। अवयवत्वाभावादिति। अन्यथा पूर्वासु वर्षास्वित सामानाधिकरण्यं न सङ्गच्छेतेति भावः।