पूर्वम्: ७।३।२४
अनन्तरम्: ७।३।२६
 
सूत्रम्
जङ्गलधेनुवलजान्तस्य विभाषितमुत्तरम्॥ ७।३।२५
काशिका-वृत्तिः
जङ्गलधेनुवलजान्तस्य विभाषितम् उत्तरम् ७।३।२५

जङ्गल धेनु वलज इत्येवम् अन्तस्य अङ्गस्य पूर्वपदस्य अचामादेरचो वृद्धिर् भवति, विभाषितम् उत्तरम् उत्तरपदस्य विभाषा भवति तद्धिते ञिति, णिति, किति च परतः। कुरुजङ्गलेषु भवम् कौरुजङ्गलम्, अकुरुजाङ्गलम्। वैश्वधेनवम्, वैश्वधैनवम्। सौवर्णवलजः, सौवर्णवालजः।
न्यासः
जङ्गलधेनुवलजान्तस्य विभाषितमुत्तरम्?। , ७।३।२५

"उत्तरम्()" इत्यनेनोत्तरपदं लक्ष्यते; तस्य चोत्तरपदस्य नित्यं सन्निधानात्? विभाषितत्वं नोपपद्यते। तस्मात्? तत्सम्बन्धिन्या वृद्धेर्विभाषितत्वात्? "विभाषितम्()" इत्युक्तम्()। अत एवाह--"उत्तरपदस्य विभाषा भवति" इति। वृद्धिरिति प्रकृतेन सम्बन्धः॥
बाल-मनोरमा
जङ्गलधेनुवलजान्तस्य विभाषितमत्तरम् १४११, ७।३।२५

जङ्गलदेनु। जङ्गलाद्यन्तस्याङ्गस्येति। जङ्गल, धेनु वलज इत्यन्तस्येत्यर्थः। कुरुजङ्गले इति। "भव"मिति शेषः। कुरुजङ्गलादिशब्दा देशविशेषेषु।