पूर्वम्: ७।३।२५
अनन्तरम्: ७।३।२७
 
सूत्रम्
अर्धात् परिमाणस्य पूर्वस्य तु वा॥ ७।३।२६
काशिका-वृत्तिः
अर्धात् परिमाणस्य पूर्वस्य तु वा ७।३।२६

अर्धशब्दात् परस्य परिमाणवाचिनः उत्तरस्य अचामादेरचः स्थाने वृद्धिर् भवति, पूर्वस्य तु वा भवति तद्धिते ञिति, णिति, किति च परतः। अर्धद्रोणेन क्रीतम् आर्धद्रौणिकम्, अर्धद्रौणिकम्। आर्धकौडविकम्, अर्धकौडविकम्। परिमाणस्य इति किम्? अर्धक्रोशः प्रयोजनम् अस्य आर्धक्रोशिकम्।
न्यासः
अर्धात्? परिमाणस्य पूर्वस्य तु वा। , ७।३।२६

"आर्धद्रौणिकम्()" इति। "अर्थं नपुंसकम्()" २।२।२ इति समासः, "प्राग्वतेष्ठञ्()" ५।१।१८। अथ वावचनं किमर्थम्(), न विभाषितमिति ७।३।२५पूर्वसूत्रादनुवत्र्तष्यते, उत्तरमित्यनेन तत्? सम्बद्धम्(), अतस्तदनुवृत्तावृत्तरपदस्यैव विकल्पः स्यादिति चेत्()? नैतदस्ति; उततरपदमित्येतन्न स्वरिष्यते, तुशब्दश्चेह क्रियते, स नियमर्थो भविष्यति--पूर्वस्यैव भवति, नोत्तरस्येति। एवं तह्र्रकयोगे स्वरतत्वकरणाकरणाद्धि वावचनमेव लधीय इति पुनर्वावचनं क्रियते॥
बाल-मनोरमा
अर्धात्परिमाणस्य पूर्वस्य तु वा १६६२, ७।३।२६

अर्धात्परिमाणस्य। "परिमाणान्तस्ये"त्यस्मादुत्तरमिदं सूत्रम्। अर्धद्रौणिकम्-आर्धद्रौणिकमिति। द्रोणशब्दस्य निष्कादित्वेऽपि असमासग्रहणान्न ठक्। किंतु ठञेव।