पूर्वम्: ७।३।४७
अनन्तरम्: ७।३।४९
 
सूत्रम्
अभाषितपुंस्काच्च॥ ७।३।४८
काशिका-वृत्तिः
अभाषितपुंस्काच् च ७।३।४८

अभाषितपुंस्काद् विहितस्य आतः स्थाने यो ऽकारः तस्य उदीचाम् आचार्याणां मतेन इकारादेशो न भवति। खट्वका, खट्विका। अखट्वका, अखट्विका। परमखट्वका, परमखट्विका। बहुव्रीहौ यदा कपि ह्रस्वः क्रियते तदा भवितव्यम् अनेन विधिना। अत्र अपि अभाषितपुंस्काद् विहितस्य अतः स्थाने भवत्यकारः इति। यदा तु अविद्यमाना खट्वा अस्याः अखट्वा, अल्पा अखट्वा अखट्विका इति तदा न भवति। तथा अतिक्रान्ता खट्वाम् अतिखट्वा, अल्पा अतिखट्व अतिखट्विका।
न्यासः
अभाषितपुंस्काच्च। , ७।३।४८

नञ्पूर्वाणामपीत्यनुकर्षणार्थश्चकारः। खट्वका, खट्विका" इति। पूर्ववत्? कः। खट्वाशब्दोऽयमादिष्टलिङ्गो नित्यं स्त्रियामेव वत्र्तत इति भाषितपुंस्को न भवति। "अखटविका" इति। न खट्वा अखट्वेति नञ्समासः। "परमखट्विका" इत्यादि। "सन्महत्()" २।१।६० इत्यापिना समासः। सर्वत्र "कोऽणः" ७।४।१३ इति ह्यस्वः। बहुव्रीहेर्भाषितपुंस्कत्वादत्र न भवितव्यमनेन विकल्पेनेति कस्यचिद्भ्रान्तिः स्यात्(), अतस्तां निराकरत्तुमाह--"बहुव्रीहौ" इत्यादि। कथं पुनरभाषितपुंस्कादित्युच्यमाने बहुव्रीहौ भाषितपुंस्कादपि भवति? इत्याह--"अत्राप्यभाषितपुंस्कात्()" इत्यादि। इतिकरणो हेतौ। यद्यपि बहुव्रीहेर्भाषितपुंस्को भवति, तथापि यदा कपि "आपोऽन्यतरस्याम्()" ७।४।१५ इति ह्यस्वः क्रियते, तदाऽभाषितपुंस्कादेव विहितस्याकारस्य स्थाने यः स्यादकारस्तस्माद्भवत्येव विकल्पः। अविद्यमाना खट्वाऽस्या इति बहुव्रीहिः, "शेषाद्विभाधा" ५।४।१५४ इति कप्(); ततो ह्यस्वः। स चाभाषितपुंस्कादेव विहितस्याकारस्य भवति। तेनाखट्वका, अखट्()विकेति विकल्पो भवत्येव। "यदा तु" इत्यादि। अविद्यमाना खट्वाऽस्या इति बहुव्रीहौ कृत उपसर्डजनह्यस्वत्वम्(); ततष्टाप्()। अल्पा अखट्वेति "प्रागिवत्? कः" ५।३।७०--"अखट्विका" इति। अत्र विकल्पो न भविष्यति; भाषितपुंस्कत्वाद्वहुव्रीहेविहितस्यातः स्थानेऽकारस्य विहितत्वात्()। प्रादिसमासेऽपि न भवतीति दर्शयन्नाह--"तथा" इत्यादि। "अतिखट्()विका" इति। अत्रापि प्रादिसमासे कृते, उपसर्जनह्यस्वत्वे च, पुनस्तत्पुरुषाद्भाषितपुंस्काद्विहितस्यातः स्थाने विहितोऽकार इति न प्रवत्र्तते विकल्पः॥
बाल-मनोरमा
अभाषितपुंस्काच्च ४६१, ७।३।४८

अभाषितपुंस्काच्च। "उदीचामातः स्थाने" इत्यनुवर्तते, अत इदिति च। अभाषितः पुमान्येनेति विग्रहः। विहितस्येत्यध्याहार्यम्। तदाह--एतस्मादिति। अभाषितपुंस्कादित्यर्थः। अयकपूर्वार्थं वचनम्। गङ्गका। गङ्गिकेति। गङ्गाशब्दात्कः। "केऽणः" इति ह्यस्वः, इत्त्वविकल्पः। विहितविशेषणस्य फलमाह--बहुव्रीहिरिति। अविद्यमाना खट्वा यस्या इति विग्रहे "नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः" इति बहुव्रीहौ कृते, विद्यमानपदलोपे, नञो नलोपे "शेषाद्विभाषा" इति कबभावपक्षे, "गोस्त्रियोः" इति ह्यस्वे, अखट्वशब्दाट्टापि, सुपि अज्ञातादौ के, सुब्लुकि, "केऽणः" इति ह्यस्वे, पुनष्टापि अभाषितपुंस्काद्विहितस्य आतः स्थाने अतोऽभावान्नेत्त्वविकल्पः। किंतु "प्रत्ययस्था"दिति नित्यमित्त्वमित्यर्थः। "अभाषितपुंस्कात्परस्ये"ति व्याख्याने तु तादृशखट्वशब्दात्परस्य आतः स्थाने अतः सत्त्वादित्त्वविकल्पः स्यादिति भावः। शैषिके कपि त्विति। न स् खट्वा स् इत्यवस्थायां कपि सुब्लुक्। प्रत्ययलक्षणेन भागद्वयस्य सुबन्तत्वात् "नञोऽस्त्यर्थाना"मिति बहुव्रीहिसमासः। "समासान्त" इत्यन्वर्थसंज्ञाबलात्कबन्तस्यैव समासत्वम्। ततश्च अखट्वाकशब्दे अखट्वा इत्यंशस्य उपसर्जनस्त्रीप्रत्ययान्तसमासरूपप्रातिपदिकत्वाऽभावात् "गोस्त्रियोः" इति ह्यस्वो न भवति। नापि "केऽणः" इति ह्यस्वः, "न कपी"ति निषेधात्। किंतु "आपोऽन्यतरस्या"मिति ह्यस्वविकल्पः। तत्र खट्वाशब्दाद्विहितस्य कपः प्राग्वर्तिनष्टापोऽभाषितपुंस्काद्विहितत्वेन तत्स्थानिकह्यस्वाकारस्यायमित्त्वविकल्पो भवत्येवेत्यर्थः। "आपोऽन्यतरस्या"मिति ह्यस्वाऽभावपक्षे तु अखट्लाकेत्येव बोध्यम्।

तत्त्व-बोधिनी
अभाषितपुंस्काच्च ४१५, ७।३।४८

अभषित। एतस्मादिति। नित्यस्त्रीलिङ्गादित्यर्थः। विहितविशेषणतया व्याख्यानस्य फलमाह---बहुव्रीहेरिति। ततो विहितस्य नित्यमिति। आवेद्यमाना खट्वा यस्याः सा "अखट्वे"त्यत्र "शेषद्विभाषे"ति समासान्तस् कपो वैकल्पिकत्वात्कबभावपक्षे "गोस्त्रियो"रित्युपसर्जनह्यस्वे कृते पुनरखट्वशब्दाद्भाषितपुंस्काट्टापि सत्यज्ञातादौ कप्रत्यये "केष()णः"इति ह्यस्वेऽस्य विकल्पस्याऽप्रवृत्तेः "प्रत्ययस्था"दित्युत्सर्ग एव पर्वर्तते, परविशेषणत्वे त्वयं विकल्पः स्यादेवेति भावः। "बहुव्रीहे"रित्युपसर्जनोपलक्षणं, तेनाऽतिखट्विकेत्यादावपि नित्यमेव। विकल्प एवेति। "अखट्वे"ति बहुव्रकीहौ "न सु खट्वा सु"इति स्थिते "सुपो धातु---"इति सोर्लुक्यपसर्जनह्यस्वत्वं बाधित्वा "शेषाद्विभाषे"ति समासान्ते कपि परत्वात्कृते स्त्रीप्रत्ययान्तत्वाऽभावादुपसर्जनह्यस्वो न प्रवर्तते, किन्तु "केऽणः"इति ह्यस्वस्य "न कपि"आपोऽन्यतरस्या"मिति वैकल्पिकनिषेधात्पाक्षिकह्यस्वे सति "अभाषितपुंस्काच्चे"ति विकल्पः प्रवर्तते। तत्र हि खट्वाशब्दात्परस्य टापोऽभाषितपुंस्काद्विहितत्वादिति भावः। ह्यस्वाऽभावपक्षे त्त्वखट्वाकेत्यतद्रूपान्तरम्।