पूर्वम्: ७।३।४८
अनन्तरम्: ७।३।५०
 
सूत्रम्
आदाचार्याणाम्॥ ७।३।४९
काशिका-वृत्तिः
आदाचार्याणाम् ७।३।४९

अभाषितपुंस्कातातः स्थाने यो ऽकारः तस्य आचार्याणाम् आकारादेशो भवति। खट्वाका। अखट्वाका। परमखट्वाका।
न्यासः
आदाचार्याणाम्?। , ७।३।४९

नञ्पूर्वाणामपीत निवृत्तम्(); पूर्वसूत्रे चानुकृष्टत्वात्()। इत्त्वापवादोऽयं योगः। "केऽणः" ७।४।१३ इति ह्यस्वपवादश्च। आचार्यग्रहणं नित्यार्थम्()। असति हि तस्मिन्(); "उदीचाम्()" ७।३।४६ इत्यधिकाराद्विकल्पः स्यात्()। आचार्यग्रहणे तु सति तेन "उदीचाम्()" इत्येतस्मिन्निवर्त्तिते, नित्य एष विधिर्भवतीति॥
बाल-मनोरमा
आदाचार्याणाम् ४६२, ७।३।४९

आदाचार्याणां। पूर्वसूत्रविषय इति। अभाषितपुंस्काद्विहितस्यातः स्थाने अत इत्यर्थः। शुभ्रिकेति। शुभ्रशब्दो विशेष्यनिघ्नोऽनियतलिङ्गः। ततः स्त्रियां टापि शुभ्राशब्दात्कः। "केऽणः" इति ह्यस्वः, पुनष्टाप्। अत्र कात्पूर्ववर्तिनष्टापोऽभाषितपुंस्काद्विहितत्वाऽभावात्तत्स्थानिकस्याऽतो नेत्वविकल्पः। किं तु "प्रत्ययस्था"दिति नित्यमित्वमित्यर्थः। अनुपसर्जनादित्यधिकारस्य उत्तरावधिमाह--यूनस्तिरित्यभिव्याप्येति। "यूनस्तिः" इत्यत्राप्ययमधिकारो नतु ततः प्रागित्यर्थः। अत्र च व्याख्यानमेव शरणम्। अत्र यद्वक्तव्यं तत् "यूनस्तिः" इत्यत्र वक्ष्यते। ननु बहवः कुरुचरा यस्यां सा बहुकुरुचरा, नदमतिक्रान्ता अतिनदा इत्यादिषु उपसर्जनेषुकुरुचरनदादिशब्देभ्यः "टिड्ढाणञि"त्यादिना विधीयमानानां ङीबादिप्रत्ययानां प्रसक्तिरेव नास्ति, समासप्रत्ययविधौ तदन्तविधिप्रतिषेधात्। तस्मादनुपसर्जनाधिकारो व्यर्थ इत्यत आह--अयमेवेति। अनुपसर्जनादित्यधिकार एवायं स्त्रीप्रत्ययेषु तदन्तविधिं ज्ञापयतीत्यर्थः। एतच्च भाष्ये स्पष्टम्। तत्फलं तु "वनो र चे"त्यत्र वन्नन्तान्तलाभ इत्यादि ज्ञेयम्। ननु स्त्रीप्रत्ययेषु तदन्तविध्यभावेऽपि नद इवाचरति नदा स्त्रीत्यादिषु आचारक्विबन्तप्रकृतिककर्तृक्विबन्तेषु ङीबादिनिवृत्तये अनुपसर्जनाधिकारस्यावस्यकत्वात्कथं तस्य स्त्रीप्रत्ययविधिषु तदन्तविधिज्ञापकतेति चेत्, न, अनुपसर्जनाधिकारस्य स्त्रीप्रत्ययविधिषु तदन्तविधिज्ञापनार्थत्वपरभाष्यप्रामाण्येन स्त्रियामाचारक्विबन्तप्रकृतिककर्तृक्विबन्तानामनभिधानोन्नयनादित्यलम्।