पूर्वम्: ७।३।५२
अनन्तरम्: ७।३।५४
 
सूत्रम्
न्यङ्क्वादीनां च॥ ७।३।५३
काशिका-वृत्तिः
न्यङ्क्वादीनां च ७।३।५३

न्यङ्कु इत्येवम् आदीनां कवर्गादेशो भवति। न्यङ्कुः नावञ्चेः इति उप्रत्ययः। मद्गुः मिमस्जिभ्य उः इति मस्जेः उप्रत्ययः। भृगुः प्रथिमदिभ्रस्जां सम्प्रसारणं सलोपश्च इति उप्रत्ययः। दूरेपाकः, फलेपाकः दूरे पच्यते स्वयम् एव, फले पच्यते स्वयम् एव। पचाद्यच्। निपातनाद् वृद्धिः। तत्पुरुषे इऋति बहुलम् ६।३।१३ इति सप्तम्या अलुक्। क्षणेपाकः इत्यपि हि केचित् पठन्ति। दूरेपाका, फलेपाका इत् टाबन्तमप्रे ऽधीयते। उकारान्तावपरे दूरेपाकुः फलेपाकुः इति। तेषाम् उप्रत्ययः निपातनादेव। तक्रम् वक्रम् इति पञ्चतेर् वञ्चतेश्च स्फायितञ्चिवञ्चि इत्यादिना सूत्रेण रक्। व्यतिषङ्गः व्यतिषजति इति पचाद्यच्। अनुषङ्गः। अवसर्गः। उपसर्गः। श्वपाकः, मांसपाकः, कपोतपाकः, उलूकपाकः इति कर्मोपदादण् प्रत्ययः। संज्ञाया अन्यत्र अर्हः, अवदाहः, निदाहः। न्यग्रोधः, वीरुदित्यत्र न्यक्पूर्वस्य रुहेः पचाद्यचि, विपूर्वस्य क्विपि धकारो विधीयते। न्यग्रोहयति न्यग्रोधः। विरोहयति इति वीरुत्।
न्यासः
न्युङ्क्वादीनां च। , ७।३।५३

अधिण्ण्यदर्थोऽयमारम्भः। "नावञ्चतेरित्युप्रत्ययः" इति। तत्र "भृमृशीतृ()चरित्सरितनिधनिमिमस्जिभ्य उः" (द।उ।१।९२) इत्यनुवृत्तेः। "मद्गुः" इति। "टुमस्जो शुद्धौ" (धा।पा।१४१५), "झलां जश्? झशि" ८।४।५२ इति सकारस्य दकारः। "मिमस्जिभ्य उः" इति। अनेन "भृमृशीतृ()चरि" (द।उ।१।९२) इत्यादिकमुपलक्षयति। "भृगुः" इति। "भ्रस्ज पाके" (धा।पा।१२८४)। "प्रथिभ्रदि" (द।उ।१।११३) इत्यादिके सूत्रऽत एव सूत्रा(द।उ।१।९२)दुप्रत्ययोऽनुवत्र्तते। "दूरेपाकः"["दूरेपाकाः"--मु।पाठ] इति। कर्मकत्र्तरि पचाद्यच्()। "उकारान्तावपेर" इति। अधीयत इत्यपेक्ष्यते। "तञ्चतेः" इति। "तन्चु त्वन्चु गतौ" (धा।पा।१९१,१९२) इति, "वन्चु प्रलम्भने" (धा।पा।१७०३) "स्फायितञ्चिवञ्चि" इति सूत्रैकदेशः "स्फायितञ्चिवञ्चिशकिक्षिपिक्षुदिसृपिदृपितृपिवन्युन्दि()इआतिवृत्यजिनीपदिमदिमुदिखिदिभिदिछिदिमन्दिचन्दिदहिदसिदम्भिवहवसिवाशिशीङ्हससिधिशुभिभ्यो रक्()" (द।उ।८।३१) इत्येतत्? सूत्रमुपलक्षयति। "व्यतिषङ्गः" इति। "षन्ज सङ्गे" (धा।पा।९८७) "अवसर्गः" इति। "सृज विसर्गे" (धा।पा।११७८) पचाद्यच। "मेधः" इति। "मिह सेचने" (धा।पा।९९२)। अजेव। "()आपाकः" इति। कर्मोपपदादण्प्रत्ययः "कर्मष्यण्()" ३।२।१ इत्यनेन। "अर्हतेः" इति। "अर्ह पूजायाम्()" (धा।पा।७४०)। "दहेः" इति। "दहभस्मीकरणे" (धा।पा।९९२)। "रुहेः" इति। "रुह बीजजन्मनि प्रादुर्भावे" (धा।पा।८५९)। ननु च न्यङ्क्वादयः कृतकुत्वाः प्रातपदिकगणे पठ()न्ते, तत्किमर्थमिदम्(), यथैव हि कुत्वादन्यत्? कार्यं भवति निपातनात्? तथा कुत्वमपि भविष्यति? तस्यैव प्रातपदिकपाठस्याभ्यनुज्ञानार्थमितदमुच्यते। असति ह्रतस्मिन्? प्रमादपाठो विज्ञायतेत॥
तत्त्व-बोधिनी
न्यङ्क्वादीनां च ५६८, ७।३।५३

न्यङ्कुरिति। "कृष्णसाररुरुन्यङ्कुरङ्कुशम्बररौहिषाः" इत्यमरः।