पूर्वम्: ८।४।५१
अनन्तरम्: ८।४।५३
 
सूत्रम्
झलां जश् झशि॥ ८।४।५२
काशिका-वृत्तिः
झलं जश् झशि ८।४।५३

झलां स्थाने जशादेशो भवति झशि परतः। लब्धा। लब्धुम्। लब्धव्यम्। दोग्धा। दोग्धुम्। दोग्धव्यम्। बोद्धा। वोद्धुम्। बोद्धव्यम्। झशि इति किम्? दत्तः। दत्थः। दध्मः।
लघु-सिद्धान्त-कौमुदी
झलां जश् झशि १९, ८।४।५२

स्पष्टम्। इति पूर्वधकारस्य दकारः॥
न्यासः
झलां जश्? झशि। , ८।४।५२

"लब्धा" इत्यादि। लभेस्तृच्तुमुन्()तव्याः। "झषस्तथोर्धोऽधः" ८।२।४० इति धकारे झशि भकारस्य जश्त्वम्()--बकारः। "देग्धा" ["दोग्घा"--काशिका] इति। "दिह उपचये" (धा।पा।१०१५), "दादेर्धातोर्धः" ८।२।३२ इति हकारस्य धकारः। "बोद्धा" इति। जश्तेवन धकारस्य दकारः॥
बाल-मनोरमा
झलां जश्झशि ५४, ८।४।५२

झलाञ्जश् झशि। स्पष्टमिति। झलां स्थाने जश् स्यात् झशि परत इति सप्ष्टार्थकम्। तत्र न किञ्चिद्व्याख्यातव्यमस्ति, पदान्तरस्यानुवृत्त्यभावादित्यर्थः। इति धकारस्येति। प्रथमधकारस्येत्यर्थः। दकार इति। स्थानत आन्तर्यादिति भावः।