पूर्वम्: ७।३।६०
अनन्तरम्: ७।३।६२
 
सूत्रम्
भुजन्युब्जौ पाण्युपतापयोः॥ ७।३।६१
काशिका-वृत्तिः
भुजन्युब्जौ पाण्युपतापयोः ७।३।६१

भुज न्युबजित्येतौ शब्दौ निपात्येते पाणौ उपतापे च। भुज्यते अनेन इति भुजः पाणिः। हलश्च ३।३।१२१ इति घञ्। तत्र कुत्वाभावो गुणाभावश्च निपात्यते। उब्ज आर्जवे। न्युब्जिताः शेरते ऽस्मिन्निति न्युब्जः उपतापः, रोगः। तथैव घञि कुत्वाभावो निपात्यते। पाण्युपतापयोः इति किम्? भोगः। समुद्गः।
न्यासः
भुजन्युब्जौ पाण्युपतापयोः। , ७।३।६१

"भुजः" इति। "भुज पालनाभ्यवहारयोः" (धा।पा।१४५४), "हलश्च" ३।३।१२१ इति धञ्()। अत्र "अवे तृ()स्त्रोर्घञ्()" ३।३।१२० इत्यतो घञनुवत्र्तते। "न्युब्जः" इति। यदा दकारोपध उच्यते "उद्ज आर्जवे" इति तदा दकारस्य बकारो निपात्यते। अथ वा--"असिद्धेभ उद्जेः" ["इयवरट्()" सूत्रस्थमेतत्? वचनं महाभाष्ये] इत्यनयेष्ट()आ दकारस्य भकारे कृते जश्त्वेन बकारो भवति। यदि तु बकारोपधः "उब्ज आर्जवे" इति तदा समुद्ग इतयतर बकारसय दकारो वक्तव्यः