पूर्वम्: ७।३।६१
अनन्तरम्: ७।३।६३
 
सूत्रम्
प्रयाजानुयाजौ यज्ञाङ्गे॥ ७।३।६२
काशिका-वृत्तिः
प्रयाजानुयाजौ यज्ञाङ्गे ७।३।६२

प्रयाज अनुयाज इत्येतौ निपात्येते यज्ञाङ्गे। पञ्च प्रयाजाः पञ्च अनुयाजाः। त्वमग्ने प्रयाजानां पश्चात् त्वं पुरस्तात्। यज्ञाङ्गे इति किम्? प्रयागः। अनुयागः। प्रयाजानुयाजग्रहणं प्रदर्शनार्थम्, अन्यत्र अप्येवं प्रकारे कुत्वं न भवति। एकादशोपयाजाः, उपांशुयाजमन्तरा यजति अष्टौ पत्नीसंयाजा भवन्ति, ऋतुयाजैश्चरन्ति इत्येवम् आदि सिद्धं भवति।
न्यासः
प्रयाजानुयजौ यज्ञाङ्गे। , ७।३।६२

"प्रयाजः, अनुयाजः" इति। प्रपूर्वादनुपूर्वाचच यजेः "अकत्र्तरि च कारके संज्ञायाम्()" (३।३।१९) इति घञ्? तस्मिन्न कुत्वं निपात्यते। "प्रदर्शनार्थम्()" इति। अन्यस्याप्येवंप्रकारस्योपलक्षणार्थमित्यर्थः। तेनान्यत्रापि प्रयाजानुयाजप्रकारे यज्ञाङ्गे कुत्वं न भवति। प्रदर्शनार्थता पुनः प्रयाजानुयाजशब्दयोर्यज्ञाङ्गगरहणाद्वेदितव्या, तद्ध्येवमर्थं क्रियते। कथं नाम प्रयाजनृयाजगरहणस्योपलक्षणार्थता प्रतीयेत! [प्रतीयते--प्रांउ। पाठः] अन्यथा हि निपातनसामथ्र्यादेव यज्ञाङ्गविषयता विज्ञायत इति तन्न कत्र्तव्यमेव स्यात्()॥
तत्त्व-बोधिनी
भुजन्युब्जौ यज्ञाङ्गे ५७८, ७।३।६२

न्युब्ज इति। उब्ज आर्जवे। निपूर्वस्याऽस्यजस्य कुत्वाऽभावो,दस्य बकारो निपात्यते।